पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८
काव्यमाला ।

मधुरा वृत्तिरित्येव न द्रष्टव्यम् । किं तर्हि । एतेषां वर्णानां मध्यदन्यतमवर्णैरर्नुप्रासे म धुरा वृत्तिरिति ।  किमविशेषेणैते प्रयोक्तव्याः । नेत्याह-

तत्र यथाशक्ति रणौ द्विस्त्रिर्वा युक्तितो लकारं च ।
पञ्चभ्यो न कदचिद्वर्ग्यानूर्ध्व प्रयुञ्जीत ॥ २१ ॥

 तत्रेति । तत्र तेषु वर्णेषु मध्ये रणौ यथाशक्ति यवतोः प्रयोगकरणे सामर्थ्यमस्ति तावत्प्रमाणौ प्रयोक्तव्यौ । माधुर्यलाभात् । युक्तितः संयोगाल्लकारं द्विखिर्वा प्रयुञ्जीत । वर्ग्वोस्तु पञ्चभ्य ऊर्ध्व्मधिकं न कदाचनापि प्रयुञ्जीत । माधुर्यभङ्गप्रसङ्गादित्यर्थः । एतदुदाहरणमाह

भण तरुणि रमणमन्दिरमानन्दस्यन्दिसुन्दरेन्दुमुखि ।
यदि सल्लिलोल्लपिनि गच्छासि तत्कि त्वदीयं मे ॥ २२ ॥
अनणुरणन्मणिमेखलमविरतशिञ्जानमज्जुमज्जिरम् ।
परिसरणमरुणचरणे रणरणकमकारणं कुरुते ॥ २३ ॥ (युग्मम् )

 भणेति। अनण्विति । कश्चित्परमहिलां निजदयितगृहं व्रजन्तीं वीक्ष्याह--भण वद त्वमेव हे तरुणि यदि त्वं निजदयितमन्दिरं व्रजसि तत्किम्। त्वदीयं परिसरणं में निष्प्रयो जनमेव रणरणकं हृदयाकुठत्वं कुरुते । आनन्दस्यन्दि हर्षकारि सुन्दरं रम्यमिन्दुवन्मुखं यस्याः सामन्यते । तथा सल्लीलया सुविलासेनोल्लपितुं वक्तुं शीलं यस्याः सा चाम- न्यते । तथारुणचरणे लोहितक्रमे । कीदृशं परिसरणम् । अनणु तारं रणन्ती शब्दा यमाना मणिमेखला रत्नरशना यत्र तत् । तथाविरतं शिञ्जनानि रणन्ति मनूनि मधु राणि मीराणि चरणाभरणानि यत्र तत् । लक्षणं तु स्वधिया सर्वमायोज्यम् । अथ प्रौढामाह

अन्यटवर्गान्मुक्त्वा वर्षीयणा उपरि रेफसंयुक्ताः
कपयुक्तश्च तकारः प्राढाया कस्तयुक्तश्च ॥ २४ ॥

 अन्यटवर्तीनिति । प्रौढायो वृत्तौ वग्र्याः कादयो यकारणकारौ चोपरिभागे रेफेणे संयुक्ता भवन्ति । किं कृत्वा। अन्त्यान् अणनमान् टवर्गे च मुक्त्वा विहाय । तथा ककारपकाराभ्यामुपरिभागे तकारश्च युक्तो भवति । च: समुच्चये । तथा ककारस्तक रेणोपरिभागे संयुक्त इत्यर्थः । तत्रदमुदाहरणम्---\

कार्याकार्यमनायैरुन्मार्गनिरर्गलैर्गलन्मतिभिः।
नाकण्यंते विकणैर्युक्तोक्तिभिरुतमुक्तमपि ॥ २१ ॥

कार्याकार्यमिति । येऽनार्यो अशिष्ट उन्मार्गे कुमार्गे निरर्गला निरझुणाः । स्वच्छन्दा ,,