पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२ अध्यायः]
१९
काव्यालंकारः ।

इत्यर्थः । तथा गलन्मतयो नश्यब्दुद्धयः । विकर्णा जडास्तैरेवंभूतैः कार्याकार्ये हिताहित- मुक्तमुक्तमपि पुनःपुनर्भणितमपि नाकर्ण्येते न श्रूयते । कैरुक्तमित्याह-युक्ता संगता उक्तिर्वचनं येषां तैः। पयुक्ततकारस्य तयुक्तककारस्य च स्वयमुदाहरणं द्रष्टव्यमिति । एषा वृत्तिरन्यैरोज इत्युक्ता ॥

अथ परुषामाह -- सर्वैरुपरि सकारः सर्वे रेणोभयत्र संयुक्ताः । एकत्रापि हकारः परुषायां सर्वथा च शषौ ॥ २६ ॥ </poem>  सर्वैरिति । परुषायां वृत्तौ सवैरुक्तैरनुक्तैश्च वर्णैरुपरिभागे सकारो युक्तो भवति । तथा सर्वे वर्णा उक्ता अनुक्ता रेफेणोभयत्रोपर्यधोभागयोः पर्यायेण युगपद्वा युक्ता भ- वन्ति । तथा हकारो रेफेणैकत्रोपर्यधो वा युक्तो भवति । अपिशब्दो नियमार्थः । एक- त्रैवेत्यर्थः । शकारषकारौ च सर्वथा सर्वेण प्रकारेण । रेफेणान्यैर्वा युक्तावसंयुक्तौ वेति सर्वथाशब्दार्थः ।

 उदाहरणम्--

लिप्सून्सर्वान्सोऽन्तर्ब्रह्नॊद्यैर्ब्राह्मणैर्दतः पश्यन् ।
जिह्नेत्यगर्ह्यबार्हिःशेषशयः कोषशून्यः सन् ॥ २७ ॥

 लिप्सूनिति । कश्चिन्महासत्वो दत्तसर्वस्वोऽत्र वर्ण्यते । स महासत्वोऽन्तर्मध्ये जि- ह्नेति लज्जते । किं कुर्वन् । पश्यन् । कान् । लिप्सूंल्लब्धुकामान् । सर्वान्याचकानित्यर्थः। कीदृशः । वृतः परिगतः। कैः । ब्रह्मोध्यैर्वेदपारगैर्ब्राह्मणैः । पुनः कोद्रुक्। अगर्ह्यः प्रशस्तो यो बर्हिर्दर्भः स एव शेषमुर्वरितं तत्र शेते यः । तन्मात्र धन इत्यर्थः । लक्षणयोजना स्वयं कार्या ।  अथास्याः सर्वत्र प्रयोगनिवारणार्थमाह—

परुषाभिधायिवचनादनुकरणाच्चापरत्र नो परुषाम् ।
रचयेदथागतिः स्यात्तत्रापि ह्नादयो हेयाः ॥ २८ ॥

 परुषेति । परुषाभिधायिवचनान्निष्तुरत्वप्रतिपादनपरगिरोऽनुकरणाच्चान्यत्र परुषां वृत्तिं न रचयेत् । अथागतिर्गत्यन्तराभावः स्यात्, तत्रापि ह्नादयो हेयास्त्याज्याः । अत्य- न्तपरुषत्वात् । केवलं शषादिप्रयोगः कार्यः ।

 ललिताभद्रयोर्लक्षणमाह

ललितायां घधभरसा लघवो लश्चापरैरसंयुक्तः।
परिशिष्टा भद्रायां पृथगथवा श्रव्यसंयुक्ताः ॥ २९ ॥

 ललितायामिति । ललितायां वृत्तौ घकारधकारभकाररेफसकारा भवन्ति । ते च लघवो न गुरवः । तथा लकारश्चापरैर्वर्णैरसंयुक्तः । आत्मना तु भवेदिति । भद्रायां तु