पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२ अध्यायः]
१७
काव्यालंकारः ।

२ अध्यायः काव्यालंकारः । यदि शल्यमपि सोडुं शक्यते तदा दुर्वचनं सुसहमेवेत्यर्थः । पूर्वपक्षे खलदुर्वचनस्य दु:- 'सहतोक्ता, द्वितीये तु सुसहतेति भेदः ॥ अथानुप्रासलक्षणमाह- एकद्वित्रान्तरित व्यञ्जनमविवक्षितस्वरं बहुशः । आवय॑ते निरन्तरमथवा यदसावनुप्रासः ॥ १८ ॥ एकेति । यद्यञ्जनं बहुशो बहून्वारानावर्त्यते । कीदृशम् । एकद्वित्रान्तरितम् । एकेन द्वित्रैर्वा व्यञ्जनैरन्तरितं व्यवहितम् । किं व्यवहितानुवर्तनमेवानुप्रासो नेत्याह- निरन्तरमथवा । एतेनैकव्यञ्जनश्लोकानामनुप्रासतोक्ता । व्यञ्जनग्रहणं स्वरनिरासा- र्थम् । ननु स्वरनिरासे कृतेऽनुप्रासस्याभाव एव स्यात् । स्वररहितस्यावृत्तेर मुपलम्भा- दित्याह-अविवक्षितस्वरम् । अविवक्षिताः स्वरा यत्र तथा । स्वरचिन्ता न क्रियत इत्यर्थः । बहुशोग्रहणादेकावृत्तिमात्रेण नानुप्रासः । किं तर्हि । एकद्वित्रान्तरितमनेक- वारानावय॑ते ततोऽनुप्रास इति ॥ सामान्येनानुप्रासलक्षणमभिधायेदानीमस्यैव भेदानाह- मधुरा प्रौढा परुषा ललिता भद्रेति वृत्तयः पञ्च । वर्णानां नानात्वादस्येति यथार्थनामफलाः॥ १९ ॥ मधुरेति । अस्यानुप्रासस्य पञ्च वृत्तयो भवन्ति । कुतः।वर्णानां व्यञ्जनानां नानात्वात्। ब्य अनानामावृत्त्यानुप्रासस्योक्तत्वाद्वर्णानामित्युक्तेऽपि व्यञ्जनानामिति गम्यते । कास्ताः । मधुरा, प्रौढा, परुषा, ललिता, भद्रा । इतिशब्दः परिसमाप्त्यर्थः । एता एव, न त्वष्टौ तिस्रो वा । तथा ह्यष्टौ हरिणोक्ताः । यथा-'महुरं फरुसं कोमलमोजस्सि निद्रुरं च ललियं च । गंभीरं सामण्णं च अद्धभणिती उनायच्चा ॥' अत्रौजस्विनिष्ठ भीराणां न तथा भेद इत्येकतरोपादानमेव न्याय्यम् । तथा वृत्तीनां मिश्रता सामान्यम् । तच्चा- नुक्तमपि लभ्यते । इत्येताः पञ्चैव । तथान्यैाम्या परुषोपनागरिकेत्युक्तं तत्र त्वसंग्रह एवेति । कीदृश्यस्ताः । यथार्थनामफलाः सान्वयनामिकाः । कुतः । इति हेत्वर्थे । सा च माधुर्यान्मधुरा, प्रौढत्वात्प्रौढा, इत्यादि हेत्वर्थो द्रष्टव्यः ।। इदानीमासां लक्षणमाह । तत्र मधुरायास्तावत् - निजवर्गान्त्वैवाः संयुक्ता उपरि सन्ति मधुरायाम् । तद्युक्तश्च लकारो रणौ च द्वत्वस्वरान्तरितौ ॥ २० ॥ निजवर्गान्त्यैरिति । मधुरायां वाः कचटतपवर्गवर्णा उपर्युपरिष्टात्संयुक्ताः सहिताः सन्ति विद्यन्ते। कैरित्याह-निजवर्गान्त्यैाणनमैवर्णैः । तथा तद्युक्तस्तेन लकारेण युक्तो लकारः । रणौ च रेफणकारौ च । कीदृशौ । ह्रस्वस्वरेणान्तरितौ व्यवहितौं भ- वतः । नन्वेकव्यञ्जनावृत्तिरनुप्रासलक्षणमुक्तम् , तत्किमिह बहुवर्णसद्भाव उच्यते। सत्यम् । बहुत्वाद्वर्णानां बहवोऽनुप्रासा अपीति न दोषः । एतेषां च वर्णानां युगपत्प्रयोग एव