पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/१५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५२
काव्यमाला ।


एवमिति । खण्डयतीति ।वत्तिति। कृतेति । गतार्थम् ।। अथ तस्य नर्मसचिवः त्रीडासहायो भवति, तस्य चाष्टौ गुणाः । तानाह--

भक्तः संवृतमन्त्रो नर्मणि निपुणः शुचिः पटुर्वाग्मी ।

चित्तज्ञः प्रतिभावांस्तस्य भवेन्नर्मसचिवस्तु ॥ १३ ॥ भक्त इति । गतर्थार्या ॥ अथ तस्यैव भेदानाह त्रिविधः स पीठमर्दः प्रथमोऽथ विटो विदूषकस्तदनु । नायकगुणयुक्तोऽथ च तदनुचरः पीठमर्देऽत्र ॥ १४ ॥ विट एकदेशविद्यो विदूषकः क्रीडनीयकप्रायः। निजगुणयुक्तो मुखौ हासकराकारवेषवचाः ॥ ११ ॥ त्रिविध इति । विट इति । गतार्थमार्याद्वयम् ।। अथ नायिकानां स्वरूपं भेदान्प्रभेदांश्च भेदप्रभेदस्वरूपं चाह आत्मान्यसर्वसक्तंस्तिस्रो लज्जान्विता. यथोक्तगुणाः । सचिवगुणान्वितसख्यस्तस्य स्युर्नायिकाश्चेमाः ॥ १६ ॥ शुचिपौराचाररता चरित्रशरणार्जुवक्षमायुंक्ता । आत्मीया तु त्रेधा मुग्धा मध्या प्रगल्भा च ॥ १७ ॥ मुग्धां तत्र नवोढा नवयौवनजनितमन्मथोत्साहा । रतिनैपुणानभिज्ञा साध्वसपिहितानुरागा च ॥ १८ ॥ तल्पे परिवृत्यास्ते सकम्पमालिङ्गने ऽङ्गमपहरति । वदनं च चुम्बने सा पृष्टा बहुशोऽस्फुटं वक्ति ॥ १९ ॥ अन्यां निषेवमाणे सा कुप्यति नायके ततस्तस्य । रोदिति केवलमग्रे मृदुनोपायेन तुष्यति च ॥ २० ॥ आरूढयौवनभरा मध्याविभूतमन्मथोत्साहा । उद्भिन्नप्रागल्भ्या किचिड़तसुरतचातुर्या ॥ २१ ॥ व्याप्रियते सायस्ता सुरते विशतीव नायिकाङ्गेषु । सुरतान्ते सानन्दा निमीलिताक्षी विमुह्यति च ॥ २२ ॥ कुप्यति तत्र सदोषे वक्रोक्त्या प्रतिभिनत्ति तं धीरा । परुषवचोभिरधीरा मध्या सास्त्रैरूपालम्भैः ॥ २३ ॥