पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२ अध्यायः]
१५१
काव्यालंकारः ।

तस्मान्नाट्ये रसाः स्मृताः ॥' स्यादेतत् । स्थायिभावानामेव रसनं भविष्यतीत्याह निर्वेदादिष्वपि तद्रसर्न निकाममस्तीति हेतोस्तेऽपि रसा ज्ञेयाः । यस्य तु परिपोषं न गतास्तस्य भावा एव ते । अयमाशयो ग्रन्थकारस्य-यदुत नास्ति सा कापि चित्तवृ- तिर्या परिपोषं गता न रसीभवति । भरतेन सहृदयावर्जकत्वप्राचुर्यात्संज्ञां चाश्रित्यायै नव वा रसा उक्ता इति ॥ अथ शृङ्गारलक्षणम् व्यवहारः पॅनायरन्योन्यं रक्तयो रत्प्रिकृतिः। शृङ्गारः सं वेधा संभोगो विप्रलम्भश्च ॥ १ ॥ संभोगः संगतयोर्वियुक्तयोर्यश्च विप्रलम्भोऽसौ । पुनरप्येष वेधा प्रच्छन्नथ प्रकाशश्च ॥ ६ ॥ व्यवहार इति । संभोग इति । गतार्थं न वरम् । मातृसुतयोः पितृदुहित्रोभ्ठभ- गिन्योः शृङ्गारनिवृत्यर्थं रक्तयोरिति पदम् । रतिः कामानुविद्ध प्रकृतिः कारणं यस्य । अथ शृङ्गारभेदव्याख्या संभोग इत्यादिका । पुनरप्येष इत्यादिना प्रभेदकथनम् ॥ धृङ्गारश्च नायकाश्रय इति तस्य गुणानाह रत्युपचारे चतुरस्तुङ्गकुलो रूपवानरुमानी । अग्राम्योज्ज्वलवेषोऽनुल्बणचेष्टः स्थिरप्रकृतिः ॥ ७ ॥ सुभगः कलासु कुशलस्तरुणस्त्यागी प्रियंवदा दक्षः । गम्यामु च विस्रम्भी तत्र स्यान्नायकः ख्यातः ॥८॥ (युग्मम्) रत्युपचार इति । सुभग इति । सुगमम् । एतैः षोडशाभिर्गुणैर्युतो नायकः त्रीणाम भिगम्यत्वाच्छङ्गराश्रय इति । अथैवंगुणस्यास्य भेदान्सलक्षणानार्थाचतुष्टयेनाह एवं स चतुध स्यादनुकूलो दक्षिणः शठो धृष्टः । तत्र प्रेम्णः स्थैर्यादनुकूलोऽनन्यरमणीकः ॥ ९ ॥ खण्डयति न पूर्वस्यां सद्भावं गौरवं भयं नेम । अभिजातोऽन्यमना अपि नार्यो यो दक्षिणः सोऽयम् ॥ १० ॥ वक्ति प्रियमभ्यधिकं यः कुरुते विप्रियं तथा निभृतम् । आचरति निरपराधवदसरलचेष्टः शठः स इति ॥ ११ ॥ कृतवित्रियोऽप्यशङ्गो यः स्यान्निर्भत्सितोऽपि न विलक्षः । प्रतिपादितेऽपि दोषे वक्ति च मिथ्येत्यसौ धृष्टः ॥ १२ ॥