पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२
काव्यमाला ।

त्पलानिं शशिना सह संप्लवन्ते । उन्मज्जति द्विरदकुम्भतटी च यत्र यत्रापरे कदलिकाण्डमृणालदण्डाः ॥’ अत्र शशिशब्देन मुखम् , उत्पलशब्देन नेत्रे, द्विरदकुम्भाभ्यां स्तनौ, कदलिकाण्डशब्देनोरू, मृणालदण्डशब्देन बाहू कवेर्विवक्षितौ । न च शब्दास्तथा वाचकाः, न च मुखादिषु शशिप्रभृतीनि पदानि यौगिकानि रूढानि वेत्यवाचकान्येव। उपमेयपदाप्रयोगाच्च रूपकभ्रान्तिरपि नास्ति । तथा दशरथ इति वक्तव्ये पङ्गिरथशब्दोऽप्यवाचकः संज्ञाशब्दत्वात्तस्य । न च दशसंख्यार्थो रथार्थो वा घटते । येन यौगिकरूढपदं स्यात् । तथा आम्रदेवादिषु चूतामरादयः शब्दा अवाचका इति । सुक्रमप्रहणं दुष्टक्रमनिवृत्यर्थम् । यथा-'वदन्त्यपर्णामिति तां पुराविदः’ इत्यत्र हि इति शब्देन पुराविदां संबन्धः, न त्वपर्णायाः । अपर्णायास्तु संबन्धे द्वितीया न स्यात् । यथा-‘क्रमादमुं नारद इत्यबोधि सः’ इत्यादौ इतिशब्दो हि वस्तुस्वरूपमात्रमवस्थापयतीति । लिङ्गार्थमात्रे प्रथमैव न्याय्यां न द्वितीया । क्वापि च शब्दमात्रप्रतिपादनेन प्रथमापि न भवति । यथा —‘गवित्ययमाह’ इति । पुष्टार्थग्रहणमपुष्टार्थनिवृत्यर्थम् । एकशब्द प्रतिपाद्यार्थे निरभिप्रायबहुशब्दप्रयोगादपुष्टार्थता जायते । यथा –‘पातु वो गिरिजामाता द्वादशार्धार्धलोचनः । यस्य सा गिरिजा माता स च द्वादशलोचनः ॥' इत्यत्र न त्रिलोचनशब्दह्वदशार्धार्धलोचन इत्यादिभिः शब्दैरधिकोऽर्थः प्रतिपाद्यत इत्यपुष्टार्थता । शब्दग्रहणमपशब्दनिरासार्थम् । अपशब्दनिरासश्च यद्यपि व्युत्पतिद्वारेणैव कृतस्तथापि महाकवीनामप्यपशब्दपातदर्शनात्तन्निरासादरख्यापनाय पुनरभियोगः । तथाहि पाणिनेः पातालविजये महाकाव्ये—‘संध्यावधूं गृह्य करेण’ इत्यत्र गृह्येति क्त्वो ल्यबादेशः। तथा तस्यैव कवेः—‘गतेऽर्धरात्रे परिमन्दमन्दं गर्जन्ति यत्प्रावृषि कालमेघाः। अपश्यती वत्समिवेन्दुबिम्बं तच्छर्वरी गौरिव हुं करोति ॥' इत्यत्र ‘पश्यती' इदं लुप्तन्ती’ नकारं पदम् । तथा च भर्तृहरेः—'इह हि भुवनान्यन्ये धीराश्चतुर्दश भुञ्जते’ इत्यत्रात्मनेपदम्। यथा वा कालिदासस्य–‘अवजानासि मां यस्मादतस्ते न भविष्यति । मत्प्रसूतिमनाराध्य प्रजेति त्वां शशाप सा ॥’ इत्यत्र हि अनाराध्येति भिन्नकर्तृ पूर्वकाले क्त्वा । यस्मादाराधनस्य राजा कर्ता भवनस्य प्रजेति । यथा च भारवेः–‘गाण्डीवी कनकशिलानिभं भुजाभ्यामाजघ्ने विषमविलोचनस्य वक्षः।' इत्यत्रात्मनेपदमस्वाङ्गे । एवमन्येषामपि। चारुप्रहणं बर्बर्ष्टोत्यादिदुःश्रवशब्दनिवृत्त्यर्थमिति । यथैवमेवंगुणयुक्ते काव्ये प्रसादगुणयोगा प्रसाद एव काव्ये गुणः समाश्रितो भवति, न तु गाम्भीर्यमित्याह--क्षोदक्षमं प्रेरणसहं वाक्यं प्रयुञ्जीत । गाम्भीर्ययुतमिति तात्पर्यार्थः किमेतावद्भणमेव वाक्यमित्याह अक्षूणमिति । समस्तदोषत्यागात्समस्तगुणसंग्रहाच्च परिपूर्णम् । एतेन ‘असमर्थमप्रतीतं विसंधि’ इत्यादि वक्ष्यमाणदोषत्यागाच्च वाक्यस्य प्रयोगार्हत्वमावेदितम् ॥ अथ पूर्वत्रासंगृहीतवाक्यगुणप्रतिपादनार्थमाह-

रचयेत्तमेव शब्दं रचनाया यः करोति चारुत्वम्।
सत्यपि सकलयथोदितपदगुणसाम्येऽभिधानेषु ॥ ९ ॥