पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२ अध्यायः]
१३
काव्यालकारः ।


 रचयेदिति । तमेव शब्दं विरचयेत् । सकलैर्यथोदितैर्यथाभिहितैः पदगुणैरन्यूनादिकैः साम्ये समानत्वे सत्यपि विद्यमानेऽप्यभिधानेषु । नामसु मध्ये रचनायाः शब्दसंदर्भरूपा याश्चारुत्वं सौन्दर्यं करोति ।।

 किमिति चारुत्वापादकं शब्दं रचयेदित्याह -

  रचनाचारुत्वे खलु शब्दगुणः संनिवेशचारुत्वम् ।
  तर्वायुर्वेवर्षे तरुपतिरसंकटैव मुने ॥ १० ॥


रचनेति । खजुर्यस्मादर्थे । यतो रचनाचारुत्वे गुम्फ्सौन्दर्ये सति संनिवेशः शब्दानां संहिताख्यं नैरन्तर्योच्चारणं तस्य चारुत्वलक्षणो यः शब्दगुणः स भवतीति । तत्रोदाह- रणं यथा-तरूणामाली पहिरुर्व्येव महत्येव हे ऋषे मुने । एतदचारुरचनं वाक्यम् । एतत्समानार्थे चारुरचनं त्विदम् । यथा-तरुपङ्किरसंकटैव मुने । अत एवंविधमेव वाक्यं प्रयोज्यम्, न त्वाद्यसममिति ॥ वाक्यलक्षणमभिधाय तस्य भेदप्रदर्शनार्थमाह-

वाक्यं भवति द्वेधा गद्यं छन्दोगतं च भूयोऽपि ।
भाषाभेदनिमित्तः षोढा भेदोऽस्य संभवति ॥ ११ ॥

वाक्यमिति । वाक्यं च द्विविधं भवति । कथम् । एकं गद्यमुत्कलम् । अन्यच्छ- न्दोगतं छन्दोनिबद्धम् । भूयस्तथापि भाषाभेदात्षोढा । भेदो वाक्यस्य संभवतीति । घोढेत्यनेन यदुक्तं कैश्चिद्यथा -‘प्राकृतं संस्कृतं चैतदपभृश इति त्रिधा’ इत्येतन्निरस्तं भवति ॥ कास्ता भाषा इत्याह

प्राकृतसंस्कृतमागधपिशाचभाषाश्च सूरसेनी च ।
षष्ठोऽत्र भूरिभेदो देशविशेषादपभृशः ॥ १२ ॥

प्राकृतेति । सकलजगज्जन्तूनां व्याकरणादिभिरनाहितसंस्कारः सहजो वचनव्या- पारः प्रकृतिः । तत्र भवं सैव वा प्राकृतम् । ‘आरिसवयणे सिद्धे देवाणं अद्धमागहा बाणी’ इत्यादि वचनाद्वा प्राक्पूर्वं कृतं प्राकृतं बालमहिलादिसुबोधं सकलभाषानिबन्ध- नभूतं वचनमुच्यते । मेघनिर्मुक्तजलमिवैकस्वरूपं तदेव च देशविशेषात्संस्कारकरणाच समासादितविशेषं सत्संस्कृतार्थोत्तरविभेदानाप्नोति । अत एव शास्त्रकृता प्राकृतमादौ निर्दिष्टं तदनु संस्कृतादीनि । पाणिन्यादि व्याकरणोदितशब्दलक्षणेन संस्करणात्सं- स्कृतमुच्यते । तथा प्राकृतभाचैव किंचिद्विशेषलक्षणान्मागधिका भण्यते । तच्चेदं यथा- रसयोर्देशौ मागधिकायाम् । रेफस्य लकारो दन्त्यसकारस्य तालव्यशकारः । यथा- सुरा शुला, सरसी शलशी इत्यादि । तथा एत्वमकारस्य सौ पुंसि । यथा-एस पु रिसो, एशे पुलिशे इत्यादि । पुंस्येवैत्वम् । तेन तं शलिलं । तथा अहं वयमोईगे आ- देशः। यथा-हगे संपत्ते, हगे संपत्ता । तथा जय्ययोर्यकारो भवति । यथा-य्याणदि-