पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२ अध्यायः]
११
काव्यालकारः ।

नतु नामादीनां पञ्चानामेव युगपत्सद्भावे । कीदृशां शब्दानाम् । परस्परं सव्यपेक्षवृत्तीनाम् । अन्योन्यं साकाङ्क्षव्यापाराणाम् । न त्वेवंविधानां यथा—‘आषाढी कार्तिकी ! मासी वचा हिङ्गु हरीतकी।' पश्यतैतन्महच्चित्रमायुर्मर्माणि कृन्तति ॥' तथा एकपराणाम्। एकं वस्तु साधयितुमुद्यतानामित्यर्थः । तथा अनाकाङ्क्षः । साकाङ्क्षश्चेन्न भवति । यस्मादाख्यातं विना शब्दसमुदायः साकाङ्क्षो भवति । तमपेक्षत इत्यर्थः । अथ वाक्यगुणानाह

अन्यूनाधिकवाचकसुकमपुष्टार्थशब्दचारुपदम् ।
क्षोदक्षममेक्षूणं सुमतिर्वाक्यं प्रयुञ्जीत ॥ ८ ॥

अन्यूनेति । शब्दाश्च ते चारुपदानि च शोभनपदानि च शब्दचारुपदानि, ऊनानि चाधिकानि चोनाधिकानि, नितरामूनाधिकानि न्यूनाधिकानि, न तथा अन्यूनाधिकानि, तानि च तानि वाचकानि च सुक्रमाणि च पुष्टार्थानि च शब्दचारुपदानि यत्र वाक्ये तत्तथाभूतं वाक्यं प्रयुञ्जीतेति संबन्धः । तत्रान्यूनग्रहणाद्यत्र कंचिच्छब्दं विना दुष्टार्थप्रतीतिर्विवक्षितार्थाप्रतिपत्तिरेव वा भवति तन्न्यूनपदं वाक्यं निरस्तम् । यथा—‘संपदो जलतरङ्गविलोला यौवनं त्रिचतुराणि दिनानि । शारदाभ्रमिव पेलवमायुः किं धनैः परहितानि कुरुध्वम् ॥' अत्र हि धनशब्दादनन्तरं यावत्कार्यशब्दो न प्रयुक्त्तस्तावत् ‘धनैः किमिति परहितानि कुरुध्वम्’ । मा कुरुत इति दुष्टोऽर्थः प्रतीयते । विवक्षिताथप्रतीतिर्यथा — 'सीसपडिच्छियगंगं पणमिय संझं नमह नाहं’। अत्र ‘संझं' शब्दादनन्तरं ‘तत:' शब्दमन्तरेण न ज्ञायते किं 'प्रणम्य संध्यां ततो नाथं नमत', आहोस्वित् ‘प्रणतसंध्यं नाथं नमत’ इति । निशब्दग्रहणाद्यत्र विनापि पदमसाधारणविशेषणोपादानात्तदनुरूपकारकप्रयोगाद्वा ।विवक्षितपदार्थप्रतीतिस्तदूनमात्रं साध्वेव । यथा -‘स वः पायात्कला चान्द्री यस्य मूर्ध्नि विराजते । गौरीनखाग्रधारेव भग्नरूढा कचग्रहे ॥’ अत्र ह्यसाधारणविशेषणैः शंभुरित्यनुक्तमपि लभ्यते । अनुरूपकारकप्रयोगात्पदार्थप्रतीतिर्यथा- 'यश्च निम्बं परशुना यश्चैनं मधुसर्पिषा । यश्चैनं गन्धमाल्याभ्यां सर्वस्य कटुरेव सः ॥' अत्र छेदसेकालंकारा अनुक्ता अपि परश्वाद्युपादानात्प्रतीयन्ते । नहि तेषां छेदादेरन्यो व्यापार इति । अधिकग्रहणाद्यत्र शब्दान्तरेणोक्तेऽप्यर्थे पुनस्तदर्थपदं प्रयुज्यते तन्निरस्तम् । यथा—‘स्फारध्वानाम्बुदालीवलयपरिकरालोकनं प्रेमदाम्नोः' इत्यत्रालीशब्देन मेघानां बाहुल्यं प्रतिपादितमिति तदर्थौ वलयपरिकरशब्दौ निष्प्रयोजनाविति । निग्रहणादधिकमात्र साध्वेव । यथा— 'नादेन यस्य सुरशत्रुविलासिनीनां काञ्च्यो भवन्ति शिथिला जघनस्थलेषु' । अत्र हि काञ्च्यास्तत्स्थानत्वादेव जघनस्थले लब्धे तदुपादानमधिकमात्रमिति । वाचकग्रहणमवाचकनिवृत्त्यर्थम् । यथा-‘लावण्यसिन्धुरपरेव हि केयमत्र यत्रो-


१. ‘अक्षूणहेतोरिव पांसुतल्पान्’ इति विक्रमाङ्कदेवचरितम् (०४०). ‘अक्षुण्णम्’ इति पाठः सम्यग्भाति.