पृष्ठम्:काव्यसंग्रहः.pdf/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८६ गीतगोविन्द । गोषनं श्वसिति कथमसौ रसालाखां । चिरविरहेण विलोक्य पुष्पिताग्रां ॥ २२ ॥ दृष्टिव्याकुलगोकुलाबनवशादुनृत्य विवदलवबल्लभाभिरधिकानन्दाञ्चिरं चुम्बितः । दर्जेणेव तदर्पिताधरतटीसिन्दूरमुद्राङ्कितो बाहुर्गोपतनोस्तनोतु भवतां श्रेयांसि कंसदियः ॥ २३ ॥ इति श्रीगीतगोविन्दे स्निग्धमधुसूदनो नाम चतुर्थः सर्गः ॥ ४ ॥ साकांक्षपुण्डरीकाक्षः । अहमिह निवसामि याहि राधां अनुनय महचनेन चानयेथाः । इति मधुरिपुणा सखी नियुक्ता स्वयमिदमेत्य पुनर्जगाद राधां ॥ १ ॥ देशीवराडीरागेण रूपकतालेन गीयते । वहतिमलयसमीरे मदनमुपनिधाय । स्फुटति कुसुमनिकरे विरहिहृदयदलनाय ॥ तब विरहे वनमाली सखी सीदति । धुं ॥२॥ दहति शिशिरमयूखे मरणमनुकरोति । पतति मदनविशिखे विलपति विकलतरोऽति ॥ तव विरहे० ॥ ३ ॥ ध्वनति मधुपसमूहे श्रवणमपिद्धाति । Google Digi: zed by