पृष्ठम्:काव्यसंग्रहः.pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीतगोविन्द | मनसि वलितविरहे निशि निशि रुजमुपयाति ॥ तव विर० ॥ ४ ॥ वसति विपिनविताने त्यजति ललितधाम । लुठति धरणिशयने बहु विलपति तव नाम ॥ तब विरिहे० ॥ ५ ॥ भगति कविजयदेवे विरहिविलसितेन । मनसि रभसविभवे हरिरुदयतु सुकतेन ॥ तब बिरहे० ॥ ६ ॥ पुर्वं यत्र समं त्वया रतिपतेरासादिताः सिइयस् तस्मिन्नेव निकुञ्जमन्मथमहातीर्थे पुनर्माधवः । ध्यायंस्त्वामनिशं जपत्रपि तवैवालापमन्त्रावली भूयस्त्वत्कुचकुम्भनिर्भरपरीरम्भामृतं वांछति ॥ ७ ॥ गुर्जरीरागेण एकतालीतालेन गीयते ॥ रतिसुखसारे गतमभिसारे मदनममोहरवेशं । म कुरु नितम्बिनि गमन विलम्बनमनुसर तं हृदयेश | धीरसमीरे यमुनातीरे वसति वने वनमाली | ॥८॥ नामसमेतं कृतसङ्केतं वादयते मृदु वेणुं । बहु मनते तनु ते तनुसङ्गतपवनचलितमपि रेणुं । धीरसमीरे० ॥ ८ ॥ पतति पतत्रे विश्वलति पचे शङ्कितभवदुपयानं । रचयति शयनं सचकितनयनं पश्यति तव पन्यातं ॥ धीरसमीरे० ॥ १० ॥ Google Digi: red by