पृष्ठम्:काव्यसंग्रहः.pdf/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७८ गीतगोविन्द मामपि किमपि तरङ्गदनदृश्य मनसा रभयन्तं ॥ से ॥८॥ श्रीजयदेवभणितमतिसुन्दरमोहनमधुरिपुरूपं । हरिचरणस्मस्यं प्रति संप्रति पुण्यवतामनुरूपं ॥ रासे० ॥ ८ ॥ . II. गणयति गुणग्रामं भ्रामं भ्रमादपि नेहते वहति च परितोषं दोषं विमुच्चति दूरतः ।. युवतिषु वलत्तृष्णे कृष्णे विहारिणि मां विना पुनरपि मनो वामं कामं करोति करोमि किं ॥ १ ॥ मालवगौडरागेड एकतालीतालेन च गीयते निभृतनिकुञ्जग्गृहं गतया निशि रहसि निलीय वसन्तं । चकित विलोकितसकलदिशा रतिरभसभरेण इसन्तं ॥ सखि हे केशिमथनमुदारं । रमय मया सह मदनमनोरथभावितया सविकार ॥ धुं ॥ २ ॥ प्रथमसमागमलज्जितया पटुचाटुशतैरनुकूलं । मृदुमधुरस्मितभाषितया शिथिलीकृतजघनदुकूलं ॥ सखि हे० ॥ ३ ॥ किशलयशयननिषेशितया चिरमुरसि ममैव शयानं । कृतपरिरम्भणचुम्बनया परिरभ्य कृताधरपानं ॥ सखि हे० ॥ ४ ॥ Digh red by Google