एतत् पृष्ठम् परिष्कृतम् अस्ति
७७
गीतगोविन्द ।
मुखरशिखरे लीना दीनाप्युवाच रहः सखीं ॥१॥
गुर्जरीरागेल यतितालेन च गीयते ॥
सञ्चरदधरसुधामधुरध्वनिमुखरितमोहनबंशं ।
चलितहगञ्चलचन्चलमौलिकपोखविलोलवतंसं |
रासे हरिमिह विचितविलासं ।
स्मरति मनो मम कृतपरिहासं ॥ ध्रुवं ॥ २ ॥
चन्द्रकचारुमयूरशिखण्डकमण्डलबलयितकेशं ।
प्रचुरपुरन्दरधनुरनुरञ्जितमेदुरमुदिरसुवेशं ॥
रासे० ॥३॥
गोपकदम्बनितम्बवती मुखचुम्बनलम्भितलोभं ।
बन्धुजीवमधुराधरपल मुलसितस्मितशोभं ॥
रासे० ॥ ४ ॥
विपुलपुलकभुजपशववलयितवलवयुवतिसहस्रं ।
करचरणोरसि मणिगणभूषणकिरण विभिन्नतमिस्रं ॥
रासे० ॥ ५ ॥
जलदपटलचलदिन्दविनिन्दकचन्दनतिलकललाटं ।
पोनपयोधरपरिसरमर्दननिर्दयहृदयकपाटं |
रासे० ॥ ६ ॥
मणिमयमकरमनोहरकुण्डलमण्डितगण्डमुदारं ।
पीतवसनमनुगतमुनिमनुअसुरासुरवरपरिवारं ॥
रासे० ॥ ७ ॥
विशदकदम्बमले मिलितं कलिकलुषभयं शमयन्तम्