पृष्ठम्:काव्यसंग्रहः.pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीतगोविन्द | मुखरशिखरे लीना दीनाप्युवाच रहः सखीं ॥१॥ गुर्जरीरागेल यतितालेन च गीयते ॥ सञ्चरदधरसुधामधुरध्वनिमुखरितमोहनबंशं । चन्चलमौलिकपोखविलोलवतंसं | चलितहगञ्चल रासे हरिमिह विचितविलासं । स्मरति मनो मम कृतपरिहासं ॥ ध्रुवं ॥ २ ॥ चन्द्रकचारुमयूरशिखण्डकमण्डलबलयितकेशं । प्रचुरपुरन्दरधनुरनुरञ्जितमेदुरमुदिरसुवेशं ॥ रासे० ॥३॥ गोपकदम्बनितम्बवती मुखचुम्बनलम्भितलोभं । बन्धुजीवमधुराधरपल मुलसितस्मितशोभं ॥ रासे० ॥ ४ ॥ विपुलपुलकभुजपशववलयितवलवयुवतिसहस्रं । करचरणोरसि मणिगणभूषणकिरण विभिन्नतमिस्रं ॥ रासे० ॥ ५ ॥ जलदपटलचलदिन्दविनिन्दकचन्दनतिलकललाटं । पोनपयोधरपरिसरमर्दननिर्दयहृदयकपाटं | रासे० ॥ ६ ॥ 0 मणिमयमकरमनोहरकुण्डलमण्डितगण्डमुदारं । पीतवसनमनुगतमुनिमनुअसुरासुरवरपरिवारं ॥ रासे० ॥ ७ ॥ विशदकदम्बमले मिलितं कलिकलुषभयं शमयन्तं । Digitized by Google