पृष्ठम्:काव्यसंग्रहः.pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीतगोविन्द | केलिचलनमणिकुण्डलमण्डिलगण्डयुगस्मितशाली । हरिरिह मुग्धबधूनिकरे । विलासिनि विलसति केलिपरे ॥ भुं ॥२॥ पीनपयोधरभारभरेख हरिं परिरभ्य सरागं । गोपवधूरनुगायति काचिदुदश्चितपश्चमरागं हरिरिह० ॥ ३ ॥ कापि विलास ध्यायति मुग्धबधूरधिकं मधुसूदनवदनसरोजं ॥ हरिरिह० ॥४॥ विलोलविलोचनखेलनजनितमनोजं । कापि कपोलतले मिलिता खपितुं किमपि श्रुतिमूले । चारु चुचुम्ब नितम्बवती दयितं पुलकैरनुकूले | हरिरिह० ॥ ५॥ केलिकलाकुतुकेन च काचिदमुं यमुनाजलकूले । मञ्जुलंबञ्जुलकुञ्जगतं विचकर्ष करेण दुकूले ॥ हरिरिह० ॥ ६ ॥ करतलतालतरलबलयावलिकलितकलस्वनवंशे । रासरसे सहन्दत्यपरा इरिणा युवतिः प्रशशंसे ॥ हरिरिह० ॥ ७ ॥ विष्यति कामपि चुम्बति कामपि कामपि रमयति रामां । पश्यति स स्मितचारु परामपरामनुगछति वामां ॥ हरिरिह० ॥ ८ ॥ श्री जयदेवभणितमिदद्भुकेशवकेलिरहस्य | Digized by Google