केलिचलन्मणिकुण्डलमण्डितगण्डयुगस्मितशाली ।
हरिरिह मुग्धबधूनिकरे ।
विलासिनि विलसति केलिपरे ॥ भुं ॥२॥
पीनपयोधरभारभरेण हरिं परिरभ्य सरागं ।
गोपबधूरनुगायति काचिदुदश्चितपश्चमरागं
हरिरिह० ॥ ३ ॥
कापि विलास ध्यायति मुग्धबधूरधिकं मधुसूदनवदनसरोजं ॥
हरिरिह० ॥४॥
विलोलविलोचनखेलनजनितमनोजं ।
कापि कपोलतले मिलिता खपितुं किमपि श्रुतिमूले ।
चारु चुचुम्ब नितम्बवती दयितं पुलकैरनुकूले |
हरिरिह० ॥ ५॥
केलिकलाकुतुकेन च काचिदमुं यमुनाजलकूले ।
मञ्जुलंबञ्जुलकुञ्जगतं विचकर्ष करेण दुकूले ॥
हरिरिह० ॥ ६ ॥
करतलतालतरलबलयावलिकलितकलस्वनवंशे ।
रासरसे सहन्दत्यपरा इरिणा युवतिः प्रशशंसे ॥
हरिरिह० ॥ ७ ॥
विष्यति कामपि चुम्बति कामपि कामपि रमयति रामां ।
पश्यति स स्मितचारु परामपरामनुगछति वामां ॥
हरिरिह० ॥ ८ ॥
श्री जयदेवभणितमिदद्भुकेशवकेलिरहस्य |