पृष्ठम्:काव्यसंग्रहः.pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीतगोविन्द । श्रमद कन्दर्पम्वरजनितचिन्ताकुखतयां बलदाध राधां सरसमिदमूचे सहचरी ॥१॥ वसन्तरागवतितालाम्यां गीयते ॥ ललितलवङ्गलतापरिशीलनकोमलमलयसमीरे । मधुकरनिकरकरम्बितकोकिलकूजितकुञकुटीरे ॥ विहरति हरिरिह सरसवसन्ते । नृत्यति युवतिजनेन समं सखि विरहिमस्य दुरन्ते ॥ भुं ॥ २ ॥ उम्मदमदनमनोरथपथिकमधूजनअनितविखापे । अलिकुलसंकुलकुसुमसमूहनिराकुलवकुलकलापे । विहरति० ॥ ३॥ मृगमदसौरभरभसवशम्बदनवदलमालतमाले । युवजन हृदयविदारणमनसिजन स्वरुचिकिंशुकजाले ॥ विहरति० ॥ ४ ॥ मदनमहीपतिकनकदण्डरुचिकेशरकुसुमविकासे । मिलितशिलीमुखपाटलिपटलक्कृतस्मरतूणविलासे ॥ विहरति० ॥ ५ ॥ विगलितलज्जितजगदवलोकनतरुणकरुणकृतहासे । विरहिनिकृन्तनकुन्तमुखाकृतिकेतकिदन्तुरिताशे || ७३ विहरति • ॥ ६ ॥ माधविकापरिमलललिते नवमालिकयातिसुगन्धौ । मुनिमनसामपि मोहनकारिणि तरुणाकारणबन्धी ॥ ञ Tigit red by Google