सामग्री पर जाएँ

पृष्ठम्:काव्यसंग्रहः.pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७२
गीतगोविन्द ।


मुनिजनमानसहंस जय जय देव हरे ॥ २ ॥
कालियविषधरगञ्जन जनरञ्जन ए।
यदुकुलनलिनदिनेश जय जय देव हरे॥३॥
मधुमुरनरकविनाशन गरुडासन ए ।
सुरकुलकेलिनिदान जय जय देव हरे ॥ ४ ॥
श्रमलकमलदललोचन भवमोचन ए ।
चिभुवनभवननिधान जय जय देव हरे ॥ ५ ॥
जनकसुताकृतभूषण जितदूषण ए ।
समरशमितदशकण्ठ जय जय देव हरे || ६ |
अभिनवजलधरसुन्दर धृतमन्दर ए ।
श्रीमुखचन्द्रचकोर जय जय देव हरे ॥ ७ ॥
तव चरणे प्रणता वयमिति भावय ए ।
कुरु कुशलं प्रणतेषु जय जय देव हरे ॥ ८ ॥
श्रीजयदेवकवेरिदं कुरुते मुदम् ए |
भङ्गलमुज्ज्वलगीति जय जय देव हरे ॥ ८ ॥
पद्मापयोधरतटीपरिरम्भलग्न
काश्मीरमुद्रितमुरो मधुसूदनस्य |
व्यक्तानुरागमिव खेलदनङ्गखेद
स्वेदाम्बुपूरमनुपूरयतु प्रियं वः ॥ १० ॥

IV.

वसन्ते वासन्तीकुसुमसुकुमारैरवयवैर्
भ्रमन्तीं कान्तारे बहुविहितकृष्णानुसरणां ।