पृष्ठम्:काव्यसंग्रहः.pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीतगोविन्द । मुनिजनमानसहंस जय जय देव हरे ॥ २ ॥ जमरञ्जन ए ! जय जय देव हरे ॥ ३ ॥ कालियविषधरगञ्जम यदुकुलनलिनदिनेश मधुमुरनरकविनाशन गरुडासन ए । सुरकुलकेलिनिदान जय जय देव हरे ॥ ४ ॥ श्रमलकमलदललोचन भवमोचन ए । चिभुवनभवननिधान जय जय देव हरे ॥ ५ ॥ जनकसुताकृतभूषण जितदूषण ए । समरशमितदशकण्ठ जय जय देव हरे || ६ | अभिनवजलधरसुन्दर धृतमन्दर ए । श्रीमुख चन्द्रचकोर जय जय देव हरे ॥ ७ ॥ तव चरणे प्रणता वयमिति भावय ए । कुरु कुशलं प्रणतेषु जय जय देव हरे ॥ ८ ॥ श्रीजयदेवकवेरिदं कुरुते मुदम् ए | भङ्गलमुज्ज्वलगीति जय जय देव हरे ॥ ८ ॥ पद्मापयोधरतटीपरिरम्भलन काश्मीरमुद्रितमुरो मधुसूदनस्य | व्यक्तानुरागमिव खेलदनङ्गखेद स्वेदाम्बुपूरमनुपूरयतु प्रियं वः ॥ १० ॥ IV. वसन्ते वासन्ती कुसुमसुकुमारैरवयवैर् भ्रमन्तीं कान्तारे बहुविहितकृष्णानुसरणां । Digized by Google