पृष्ठम्:काव्यसंग्रहः.pdf/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीतगोविन्द । केशव धृतरामशरीर जय जगदीश हरे ॥ ७ ॥ वहसि वपुषि विशदे वसनं जलदाभं । इल इतिभीतिमिलितयमुनाभं ॥ केशव धृतहलधररूप जय जगदीश हरे ॥ ८॥ निन्दसि यज्ञविधेरहह श्रुतिजातं । सदयहृदय, दर्शितपशुघातं ॥ ७१ केशव धृतयुद्धशरीर जय जगदीश हरे ॥ ८ ॥ म्वेच्छनिवइनिधने कलयसि करवालं । धूमकेतुमिव किमपि करालं केशव धृतकल्किशरीर जय जगदीश हरे ॥ १० श्रीजयदेवकवेरिदमुदितमुदारं । शृणु शुभदं सुखदं भवसारं ॥ केशव धृतदशविधरूप जय जगदीश हरे ॥ ११ ॥ वेदानुदरते अगणिवते भूगोलमुदिभ्रते दैत्यन्दारयते बलिं छलयते क्षत्रक्षयं कुर्वते । पौलस्यं जयते इलं कलयते कारुण्यमातन्वते म्वेच्छान्मूर्च्चयते दशाकृतिकृते कृष्णाय तुभ्यन्नमः ॥ १२ ॥ III. गुर्जरीरागनिःसारतालाभ्यां गीयते ॥ श्रितकमलाकुचमण्डल धृतकुण्डल ए । कलितललितवनमाल जय जय देव हरे । धुं ॥ १ ॥ दिनमणिमण्डलमण्डन भवखण्डन ए । Pigt.red by Google