पृष्ठम्:काव्यसंग्रहः.pdf/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीतगोविन्द | II. मालवगौडरागेण रूपकतालेन गीयते ॥ प्रणयपयोधिजले धृतवानसि वेदं । विहितवहिचचरिचमखेदं ॥ केशव धृतमीनशरीर जय जगदीश हरे । ध्रुवं ॥ १ ॥ क्षितिरतिविपुलतरे तव तिष्ठति पृष्ठे । धरणिधरणकिण चक्रगरिष्ठे । केशव धृतकच्छपरूप जय जगदीश हरे ॥ २ ॥ वसति दशनशिखरे धरसी तव लग्ना । शशिनि कलङ्ककलेव निमना # केशव धृतशूकररूप जय जगदीश हरे ॥ ३ ॥ तव करकमलवरे नखमद्भुतशृङ्गं । दलितहिरण्यकशिपुतनुभृङ्गं । केशव धृतनरहरिरूप जय जगदीश हरे ॥ ४ ॥ छलयसि विक्रमणे बलिद्भुतवामन | पदमखनीरजनितजनपावन ॥ केशव धृतवामनरूप जय जगदीश हरे ॥ ५ ॥ क्षत्रियरुधिरमये जगद्यगतपापं । स्रपयसि पयसि शमितभवतापं ॥ केशव धृतभृगुपतिरूप जय जगदीश हरे ॥ ६ ॥ वितरसि दिक्ष रखे दिक्पतिकमनीयं । दशमुखमौलिबलिं रमणीयं ॥ Tigered by Google i I T