पृष्ठम्:काव्यसंग्रहः.pdf/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीतगोविन्दे सामोददामोदरः । I. मेघैर्मेदुरमम्बरं वनभुवः श्यामास्तमालद्रुमैर् नक्तं भीरुयं त्वमेव तदिमं राधे गृहं प्रापय | इत्यं नन्दनिदेशतञ्चलितयोः प्रत्यभ्वकुञ्जमं राधामाधवयोर्जयन्ति यमुनाकूले रहः केलयः ॥ १॥ वाग्देवताचरितचिचितचित्तसद्मा पद्मावतीचरणचारणचक्रवर्त्ती । श्रीवासुदेवरतिकेलिकथासमेतम् एतं करोति जयदेवकविः प्रबन्धं ॥ २ ॥ यदि हरिस्मरी सरसं मनो यदि बिलासकलासु कुतूहलं । मधुरकोमलकान्तपदावल शृणु तदा जयदेवसरस्वतीं ॥ ३ ॥ वाचः पलवयत्युमापतिधरः सन्दर्भशुचिक्रिरां जानीते जयदेवस्व शरणः खाघ्यो दुरुहद्री । शृङ्गारोत्तरसत्प्रमेवरचनेर आचार्यगोवर्तनः स्प कोऽपि न विश्रुतः श्रुतिधरो धोयी कविमापतिः ॥४॥ Digized by ६८ Google