एतत् पृष्ठम् परिष्कृतम् अस्ति
६४
ऋतुसंहार
तनूनि पाण्डुनि मदालसानि
मुहुर्मुहुर्जुम्भनतत्पराणि |
श्रङ्गान्यनङ्गः प्रमदाजनस्य
करोति लावण्यरसोत्सुकानि ॥ १० ॥
नेत्रेवलोलो मदिरालसेषु
गण्डेषु पाण्डुः कठिनः स्तनेषु ।
मध्येषु नम्रो जघनेषु पीनः
स्त्रीणामनङ्गो बहुधा स्थितोऽद्य ॥ ११ ॥
अङ्गानि निद्रालसविहलानि
वाक्यानि किञ्चिन्मदिरालसामि ।
भूक्षेपजिह्यानि च वीक्षितानि
चकार कामः प्रमदाजनानां ॥ १२ ॥
प्रियङ्गुकालीयककुङ्कुमानि
स्तनाङ्गरागेषु विसर्जितानि ।
आलिप्यते चन्दनमङ्गनाभिर्
मदालसाभिर्मृगनाभियुक्तं ॥ १३ ॥
गुरूणि वासांसि विहाय तूर्णं
तनूनि लाक्षारसरञ्जितानि ।
सुगन्धिकालागुरुधूपितानि
धत्ते जनः कामशरानुविद्धः ॥ १४ ॥
पुंस्कोकिलसश्चूतरसेनमत्तः
प्रियामुखं चुम्बति सादरोयं ।