सामग्री पर जाएँ

पृष्ठम्:काव्यसंग्रहः.pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६३
ऋतुसंहार

चूतद्रमाणां कुसुमानतानां
ददाति सौरम्यमयं वसन्तः ॥ ४ ॥
स्तनेषु हाराः सितचन्दनार्द्रा
भुजेषु कम्बूवलयाङ्गदानि ।
प्रयान्ति निःशङ्कमनङ्गसौख्यं
नितम्बिनीनां जघनेषु काञ्च्यः ॥ ५ ॥ -
कुसुम्भरागारुणितै र्दुकूखैर्
नितम्बविम्बानि विलासिनीनां ।
तन्वंशकैः कुकुमरागगौरर्
श्रलं क्रियन्ते स्तनमण्डलानि ॥ ६ ॥
कर्णेषु योग्यं नवकर्णिकार
स्तनेषु हारा अलकेष्वसशोकः ।
शिखासु माला नवमल्लिकायाः
प्रयान्ति शोभां प्रमदाजनस्य ॥ ७ ॥
सपषलेखेषु विलासिनीनां
वक्त्रेषु हेमाम्बुरुहोपमेषु ।
स्तनान्तरे मौक्तिकसङ्गजातः
स्वेदोङ्गमो विस्तरतामुपैति ॥ ८ ॥
उद्यासयन्त्यः अथबन्धनानि
गाचाणि कन्दर्पसमाकुलानि ।
समीपवतिष्वपि कामुकेषु
समुत्सुका एव भवन्ति नार्यः ॥ ९ ॥