पृष्ठम्:काव्यसंग्रहः.pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋतुसंहार । प्रचुरगुडविकारस्वादुशाली क्षुरम्यः प्रवखसुरतके लिर्जात कन्दर्पदर्थः । प्रियजनरहितानां चित्तसन्तापहेतुः शिशिरसमय एष श्रेयसे वोऽस्तु नित्यं ॥ १६ ॥ इति कालिदासकृतादृतुसंहारे शिशिरवर्णना समाप्ता । वसन्तवर्णना । प्रफुल्लचूता कुरतीक्ष्णशायको हिरेफमालाविलसहनुर्गुणः । मनांसि भेनुं सुरतप्रसङ्गिनां वसन्तयोधः समुपागतः प्रिये ॥ १ ॥ द्रुमाः सपुष्याः सलिलं सपद्मं स्त्रियः सकामाः पवनः सुगन्धिः । सुखाः प्रदोषा दिवसाथ रम्याः सर्वं प्रिये चारुतरं वसन्ते ॥ २ ॥ “ईषत्तुषारैः कृतशीतहर्म्यः सुवासितं चारु शिरः सचम्पकैः । कुर्वन्ति नार्योपि वसन्तकाले स्तनं सद्दारं कुसुमै र्मनोहरैः” ॥ ३ ॥ वापीजलानां मणिमेखलानां शशाकभासां प्रमदाजनानां । Digi zed by by Google