एतत् पृष्ठम् परिष्कृतम् अस्ति
५३
ऋतुसंहार
त्यक्ता कदम्बकुटजार्जुनसर्जनीपान्
सप्तच्छदानुपगता कुसुमोहमश्रीः ॥ १३ ॥
शेफालिकाकुसुमगन्धमनोहराणि
स्वच्छस्थिताण्ड जगणप्रतिनादितानि ।
पर्यन्तसंस्थितमृगीनयनोत्पलानि
प्रोत्कष्टयम्धुपवनानि मनांसि पुंसां ॥ १४ ॥
कारपद्मकुसुमानि मुटुर्विधुन्वन्
तत्सक्रमादधिकशीतलतामुपेत्य ।
सोत्कां करोति वनितां पवनः प्रभाते
पत्रान्तलमतुहिनानि हरं स्तरूणां ॥ १५ ॥
सम्पन्नशालिनिचयात भूतानि
सुस्वस्थितप्रचुरगोकुलशोभितानि ।
हंसैश्च सारसकुलैः प्रतिनादितानि
सीमान्तराणि अनयन्ति जनप्रमोदं ॥ १६ ॥
सर्जिता सुखलिता गतिरञ्जनामाम्
श्रम्भोरुहै र्विकसितै र्मुखचन्द्रकान्तिः ।
नीलोत्पले र्मदचलानि विलोचनानि
भूविधमाथ सरितां तनुभिस्तरङ्गैः ॥१७॥
श्यामा लताः कुसुमभारनतप्रवालाः
स्त्रीखां हरन्ति धृतभूषणबाहुकान्तिं ।
दन्तावभासविशदस्मितवक्ककान्तिं
बन्धूकपुष्परचिता नवमालती च ।