पृष्ठम्:काव्यसंग्रहः.pdf/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋतुसंहार । कारण्डवाननविघट्टितवीचिमालाः कादम्बसारसकुलाकुलतीरदेशाः । कुर्वन्ति इंसविरुतैः परितो अनस्य प्रीतिं सरोरुहरजोरुणिताञ्च नद्यः ॥ ८ ॥ नेचोत्सवो हृदयहारिमरीचिमालः प्रह्लादकः शिशिरशीकरवारिवर्यो । पत्युर्वियोगविषदिग्धशरक्षतानां चन्द्रो दइत्यनुदिनं तनुमङ्गनानां ॥ ८ ॥ श्राकम्पयन् फलभरामतशालिजालान् श्रानर्त्तयन् कुरुषकान् कुसुमावनस्रान् । प्रोत्फुलपङ्गञ्जवनां नलीनिं विधुन्धन् यूनां मनो मदयति प्रसभं नभस्वान् ॥ १० ॥ सोन्मादहंसमिथुनैरुपशोभितानि स्वच्छानि फुल्लकमलोत्पलभूषितानि । मन्दप्रचारपवनोगतवीचिमालान्थ् उत्कण्ठयन्ति हृदयं सहसा सरांसि ॥ ११ ॥ नष्टं धनुर्बलभिदो जलदोदरेषु सौदामिनी स्फुरति नाथ वियत्पताका । धुन्वन्ति पक्षपवनै र्न नभोवलाकाः पश्यन्ति नोम्नतमुखा गगणं मयूराः ॥ १२ ॥ भृत्यप्रयोगरहितान् शिखिनो विहाय हंसानुपैति मदनो मधुरप्रगीतान् । ५२ . Digi: zed by x Google