सामग्री पर जाएँ

पृष्ठम्:काव्यसंग्रहः.pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५१
ऋतुसंहार

सप्तछदैः कुसुमभारनतै र्वनान्ताः
शुद्धीकतान्युपवनानि च मालतीभिः ॥ २ ॥
चञ्चम्मनोजसफरीरसनाकखापाः
पर्यन्तसंस्थितसिताडजपंक्तिदाराः ।
नद्यो विशालपुलिनोरुनितम्बबिम्बा
मन्दं प्रयान्ति समदाः प्रमदा इवाद्य ॥ ३॥
व्योम क्वचिद्रअतशंखमलालगोस्
त्यताम्बुभि लघुतया शतशः प्रयातैः ।
उत्प्रेक्ष्यते पवनवेगचलैः पयोद
राजेव चामरशतैरभियोज्यमानः ॥४॥
भिनाञ्जनप्रचयकान्ति नभो मनो
बन्धूकपुष्परजसा रुख़िता च भूमिः ।
वप्राञ्च पकवलमाटतभूमिभागा
उत्कण्ठयन्ति न मनो भूवि कस्य यूनः ॥ ५ ।।
मन्दानिलाकुलित चारुविशालशाखः
पुष्योहमप्रचयकोमलपल्लवाग्रः ।
मत्तडिरेफपरिपीतमधुप्रसेकश
चित्तं विदारयति कस्य न कोविदारः ॥ ६ ।
तारागसप्रचुरभूषणमुदद्दन्ती ....
मेघोपरोधपरिमुक्तशशाङ्खवला ।
ज्योत्स्नादुकूलममलं रजमी दधाना
दृद्धिं प्रयात्यनुदिनं प्रमदेव बाला ॥ ७ ॥