पृष्ठम्:काव्यसंग्रहः.pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८ ।

चरतुसंहार ।

मदान्वितानां स्वनतां मुहुर्मुहुः । कपोलदेशाविमलोत्पलप्रभाः

सश्वङ्गयूथै र्मदवारिभिः श्रिताः ॥ १५ ॥ सतोयनस्वाम्बुदचुम्बितोपलाः समाचिताः प्रश्रवणैः समन्ततः ।

प्रदृत्तन्टत्यैः शिखिभिः समाकुलाः समुत्सुकत्वं जनयन्ति भूधराः ॥ १६ ॥

कदम्बसर्जार्जुननीपकेतकीर् विकम्ययंस्तत्कुसुमाधिवासितः । सशीकराम्भोधरसङ्गशीतलः

समीरणः क न करोति सोत्सुकं ॥ १७॥ शिरोरुहैः श्रोणितटावलम्बिभिः

_

छतावतंसैः कुसुमैः सुगन्धिभिः । स्तनैः सुपीनैर्वदनैः सशीधुभिः स्त्रियो रतिं सञ्जनयन्ति कामिनां ॥ १८ ॥

तडिल्लताः शक्रधनुर्विभूषिताः पयोधरास्तोयभरावलम्बिनः । स्त्रियश्व काञ्चीमणिमेखलोज्ज्वला

हरन्ति चेतो घुगपत् प्रवासिनां ॥ १९ ॥ मालाः कदम्बनवकेशरकेतकीभिर् श्रायोजिताः शिरसि विभ्रति योषितेाद्य ।

-