पृष्ठम्:काव्यसंग्रहः.pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋतुसंहार । हुतवहपरिखेदादाशु निर्गत्य कक्षाद् विपुलपुलिनदेशान्त्रित्रगाम् आश्रयन्ते ॥ २७ ॥ कमलवनचिताम्बुः पाटलामोदरम्यः सुखसलिलनिषेकः सेव्यचन्द्रांशुजालः ।. व्रजतु तव निदाघः कामिनीभिः समेतो निशि सुखलितगीतैर्हर्म्यपृष्ठे सुखेन ॥ २८ ॥ इति कालिदासञ्चताहतुसंहारे काव्ये मवर्णना समाप्ता । • वर्षावर्णना । शशीकराम्भोधरमत्तकुञ्जर स्तड़ित पताको ऽशनिशब्दमर्दनः । समागतो राजवदुत्रतध्वनिर् घनागमः कामिजनप्रियः प्रिये ॥ १ ॥ नितान्तनीलोत्पलपत्रकान्तिभिः क्वचित् प्रभिन्नाञ्जनराशिसन्निभः । कचित् सगर्भप्रमदास्तनप्रभुः समाचितं व्योम धनैः समन्ततः ॥ २ ॥ तृषाकुलैचातकपक्षिणां कुलैः प्रयाचितास्तोयभरावलम्बिनः । प्रयान्ति मन्दं नववारिवर्षिणो वलाहकाः श्रोत्रमनोहरखनाः ॥ ३ ॥ Digic redlpy Google ४५