पृष्ठम्:काव्यसंग्रहः.pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२ ऋतुसंहार | मृगाः प्रचण्डातपतापिता भृशं तृषा महत्या परिशुष्कतालवः । बनान्तरे तोयमिति प्रभाविता निरीक्ष्य भिन्नाञ्जनसबिभं नभः ॥ ११ ॥ सविभ्रमैः सस्मितजिह्मवीक्षितैर् विलासवत्यो मनसि प्रवासिनां । श्रम सन्दीपनमाशु कुर्वते यथा प्रदोषाः शशिवारभूषणाः ॥ १२ ॥ रवेर्मपूखैरभितापितो भृशं विदयमानः पथि तप्तपांशुभिः । अवाङ्मुखो जिह्मगतिः सन्मुहुः फणी मयूरस्य तले निषिदति ॥ १३ ॥ तृषा महत्या इतविक्रमोद्यमः समुहुर्भूरि विदारिताननः । न इन्त्यदूरेऽपि गजामृगाधिपो विलोलजिह्वञ्चलिताग्रकेशरः ॥ १४ ॥ विशुष्क कण्ठो तशीकराम्भसो गभस्तिभिर्भानुमतोऽभितापिताः । प्रवृद्धवृष्णोपड़ता जलार्थिनो न दन्तिनः केशरिणोऽपि बिभ्यति ॥ १५ ॥ हुताग्निकल्यैः सवितुर्मरीषिभिः कलापिनः लान्तशरीरचेतसः | Digi: zed by Google