पृष्ठम्:काव्यसंग्रहः.pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋतुसंहार | पदे पदे हंसरुतानुकारिभिर् जनस्य चित्तं क्रियते समन्मथं ॥ ५ ॥ पयोधराञ्चन्दनपङ्कशीतलास् तुधारगौरार्पित हारशेखराः । नितम्बदेशाच सहेममेखलाः प्रकुर्वते कस्य मनो न सोत्सुकं ॥ ६ ॥ समुद्रतस्वेदचिताङ्गसन्धयो विमुच्य वासांसि गुरूणि सांप्रतं । स्तनेषु तम्बंशुकमुन्द्रतस्तना निवेशयन्ते प्रमदाः सयौवनाः ॥ ७ ॥ सचन्द्रनाम्बुष्यजनोद्भवानिलैः सहारयष्टिस्तनमण्डखार्पयैः । सवल्लकीकाकलिगीतनिस्वनैः प्रबुध्यते सुप्त इवाच मन्मथः ॥ ८ ॥ सितेषु हर्म्येषु निशासु योषितां सुखप्रसुप्तानि मुखानि चन्द्रमाः | विलोक्य निर्यन्त्रणमुत्सुकश्विरं निशाक्षये याति हियैव पाण्डुतां ॥ ९ ॥ असवातोहतरेणुमण्डला प्रचण्डसूर्यातपतापिता मही। न शक्यते द्रष्टुमपि प्रवासिभिः प्रियावियोगानलदग्धमानसैः E Digized by Google+ ४१