पृष्ठम्:काव्यसंग्रहः.pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०. ऋतुसंहारे एमवर्सना । प्रचण्ड सूर्यः स्पृहणीयचन्द्रमाः सदावगाइक्षतवारिसञ्चयः । दिनान्तरम्योऽभ्युपशान्तमन्मथो नदाघकालः समुपागतः प्रिये ॥ १ ॥ निशाः शशाङ्क: क्षतनीरराजयः क्वचिद्दिचिचं जलयन्त्रमन्दिरं । मणिप्रकाराः सरसश्य चन्दनं शुचौ प्रिये यान्ति जनस्य सेव्यतां ॥ २ ॥ सुवासितं हर्म्यतलं मनोरमं प्रियामुखोच्छासविकल्पितं मधु । सुतन्त्रिगीतं मदनस्य दीपनं शुचौ निशीथेऽनुभवन्ति कामिनः ॥ ३ ॥ नितम्बविम्वैः सुदुकूलमेखलेः स्तनैः सहाराभरणैः सचन्दनैः । शिरोरुहैः स्नानकषायवासितैः स्त्रियो निदाघं शमयन्ति कामिनां ॥ ४ ॥ नितान्तलाक्षारसरागलोहितैर् मितम्बिनीनां चरणैः सनूपुरैः । Tigitzed by Google C