एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४०
ऋतुसंहारे
एमवर्सना ।
प्रचण्ड सूर्यः स्पृहणीयचन्द्रमाः
सदावगाइक्षतवारिसञ्चयः ।
दिनान्तरम्योऽभ्युपशान्तमन्मथो
नदाघकालः समुपागतः प्रिये ॥ १ ॥
निशाः शशाङ्क: क्षतनीरराजयः
क्वचिद्दिचिचं जलयन्त्रमन्दिरं ।
मणिप्रकाराः सरसश्य चन्दनं
शुचौ प्रिये यान्ति जनस्य सेव्यतां ॥ २ ॥
सुवासितं हर्म्यतलं मनोरमं
प्रियामुखोच्छासविकल्पितं मधु ।
सुतन्त्रिगीतं मदनस्य दीपनं
शुचौ निशीथेऽनुभवन्ति कामिनः ॥ ३ ॥
नितम्बविम्वैः सुदुकूलमेखलेः
स्तनैः सहाराभरणैः सचन्दनैः ।
शिरोरुहैः स्नानकषायवासितैः
स्त्रियो निदाघं शमयन्ति कामिनां ॥ ४ ॥
नितान्तलाक्षारसरागलोहितैर्
मितम्बिनीनां चरणैः सनूपुरैः ।