सामग्री पर जाएँ

पृष्ठम्:काव्यसंग्रहः.pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३९
मेघदूतास्य ।


आश्वस्यैनां प्रथमचिरादग्रशोकां सखीमो
शैलादस्मात् चिनयनवधात्खातबूटानिवृत्तः ।
साभिज्ञानप्रहितकुशलैस्तदचोभिर्ममापि
प्रातःकुन्दप्रसवशिथिलं जीवितं धारयेथाः ॥ ११६ ॥
एतत् कृत्वा प्रियसमुचितं प्रार्थनं चेतसो मे
सौहार्दादा विधुरइति वा मय्यमुक्रोशबुया ।
इष्टान् देशान् विचर जलद प्राष्टषा संभृतीर्
मा भूदेवं क्षणमपि च ते विद्युत विप्रयोगः ॥ ११७ ॥
श्रुत्वा वार्त्ती जलदकथितां सां धनेशोऽपि सद्यः
शशापस्यान्ते सदयहृदयः संविधायास्तकोपः ।
संयोज्यैतौ विगलितशुचौ दम्पती हृष्टचित्तौ
भोगानिष्टानविरतसुखं भोजयामास शश्वत् ॥ ११८ ॥

इति श्रीकालिदासकृतं मेघदूतास्वं काव्यं समाप्तं ।