पृष्ठम्:काव्यसंग्रहः.pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मेघदूताख्यं । आश्वस्यैनां प्रथमचिरादग्रशोकां सखीमो शैलादस्मात् चिनयनवधात्खातबूटानिवृत्तः । साभिज्ञानप्रहितकुशलैस्तदचोभिर्ममापि प्रातःकुन्दप्रसवशिथिलं जीवितं धारयेथाः ॥ ११६ ॥ एतत् कृत्वा प्रियसमुचितं प्रार्थनं चेतसो मे सौहार्दादा विधुरइति वा मय्यमुक्रोशबुया । इष्टान् देशान् विचर जलद प्राष्टषा संभृतीर् मा भूदेवं क्षणमपि च ते विद्युत विप्रयोगः ॥ ११७ ॥ श्रुत्वा वार्त्ती जलदकथितां सां धनेशोऽपि सद्यः शशापस्यान्ते सदयहृदयः संविधायास्तकोपः । संयोज्यैतौ विगलितशुचौ दम्पती हृष्टचित्तौ भोगानिष्टानविरतसुखं भोजयामास शश्वत् ॥ ११८ ॥ इति श्रीकालिदासकृतं मेघदूतास्वं काव्यं समाप्तं । Digized by Google ३८