इत्थं चेतश्चलटुलनयने दुर्ल्लभप्रार्थनं मे
गाढोष्णाभिः कृतमशरणं तवद्वियोगव्यथाभिः ॥ ११९॥
न त्वात्मानं बहुविगस्पयन्नात्मना नावलम्बे
तत्कल्याणि त्वमपि सुतरां मा गमः कातरत्वं ।
कस्यात्यन्तं सुखमुपगतं दुःखमेकान्ततो वा
नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ॥ १११ ॥
शापान्तो मे भुजगशयमादुत्थिते शार्ङ्गपाणौ
मासानेतान् गमय चतुरो लोचने मीलयित्वा !
पश्चादावां विरहगणितं तं तमात्माभिलाषं
निर्वेक्ष्याव: परिणतशरच्चन्द्रिकासु क्षपासु ॥११२५ :
भूयश्चापि त्वमपि शयने कण्डलग्ना पुरा मे
निद्रां गत्वा किमपि रुदती सत्वरं विप्रबुद्धा |
सान्तसं कथितमसञ्चत् पृच्छतश्च त्वया मे
दृष्टः स्वप्ने कितव रमयन् कामपि त्वं मयेति ॥ ११३॥..
एतस्मान्मां कुशलिनमभिज्ञानदानाडिदित्वा
मा कौसीनादसितनयने मय्वविश्वासिनी भूः ।
सेहानाहु: किमपि विरहव्या पदस्ते भोग्या
दृष्टे वस्तुत्युपचितरसाः प्रेमराशी भवन्ति ॥ ११४ ॥
कञ्चित् सौम्य व्यवसितमिदं बन्धुकृत्यं त्वया मे
प्रत्या देशान् न खलु भवतो धीरतां तर्कयामि ।
निःशब्दोऽपि प्रदिशसि जलं याचितश्चातकेभ्यः
प्रत्युक्तं हि प्रणयिषु सतामीप्सितार्थक्रियैव ॥ ११५ ॥