पृष्ठम्:काव्यसंग्रहः.pdf/५४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पद्यसंग्रहः । वरं क्लैव्यं पुंसां नच परकलचाभिगमनं । वरं भैठ्याशित्वं मच परधनास्वादनसुखं वरं प्राणत्यागो नच पिशुनवादेष्वभिरतिः ॥ ११ ॥ निःस्खो वंष्टि शतं शतो दशशतं लक्षं सहस्राधिपः लक्षेशः क्षितिपालतां क्षितिपतिश्चक्रेश्वरत्वं पुनः । चक्रेशः पुनरिन्द्रतां सुरपतिर् ब्राह्मं पदं वांछति ब्रह्मा विष्णुपदं हरिः शिवपदं त्वाशावधिं के गताः ॥ १२॥ ख्यातः शक्रो भगाङ्गो विधुरपि मलिनो माधवो गोपजातो वेश्यापुचो वसिष्ठः सरुजपदयमः सर्वभक्ष्यो हुताशः । व्यासो मत्स्योदरीयः सलवण उद्धिः पाण्डवा जारजाता रुद्रः प्रेतास्थिधारी त्रिभुवनवसतां कस्य दोषो न जातः तुरगशतसहस्रं गोगजानाच लक्षं कनकरजतपाचं मेदिनीं सागरान्तां । विमलकुलवधूनां कोटिकन्याश्च दद्यात् नहि नहि सममेतैरन्नदानं प्रधानं ॥ १४ ॥ कालिदासकविता नवं वयः माहिषं दधि सशर्करं पयः । एैनमांसमवला च कोमला संभवन्तु मम जन्मजन्मनि [ ॥ १३ ॥ [ ॥ १५ ॥ नाक्षराणि पठता किमपाठि पाठितोपि किमु विस्मृत इत्यमर्थिजनसंशयदोला खेलनां खलु चकार नकारः ॥ १६ ॥ लक्ष्मणसेन उवाच ॥ higit.red by Google ५३१