पृष्ठम्:काव्यसंग्रहः.pdf/५४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पद्मसंग्रहः । भागीरथीतीरसमाश्रितानां ॥ ५ ॥ वासः काञ्चनपिश्चरे ऋऋपकराम्भोजैस्तनूमार्जनं भव्यं खादुरसालदाडिमफलं पेयं सुधाभं पयः । पाठः संसदि रामनाम सततं धीरस्य कीरस्य मे हाहा इन्त तथापि जन्मविटपिकोडं मनो धावति ॥ ६ ॥ उदयति यदि भानुः पश्चिमे दिग्विभागे विकसति यदि पद्मः पर्वतानां शिखाग्रे । प्रचलति यदि मेरुः शीततां याति वहिर् न चलति खलु वाक्यं सज्जनानां कदाचित् ॥ ७॥ निर्वाणदीपे किम तैलदानं चौरे गते वा किमु सावधानं । वयोगते किं वनिताविलासः पयोगते किं खलु सेतुबन्धः ॥ ८ ॥ वरमसिधारा तरुतलवासो वरमिह भिक्षा वरमुपवासः । वरमपि घोरे नरके पतनं नच धनगर्वितवान्धवशरणं ॥ ८ ॥ कुग्रामवासः कुजनस्य सेवा कुभोजनं क्रोधमुखी च भार्या । मूर्खश्च पुत्रो विधवा च कन्या विनामिना संदहते शरीरं ॥ १० । वरं मौनं कायें नच वचनमुक्तं यदन्दतं Google ५३० Digized by