पृष्ठम्:काव्यसंग्रहः.pdf/५४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पद्यसंग्रहः । ५२८ नत्वा तां परमेश्वरी शिवकरीं श्रीभारत भास्वत गङ्गातीरनिवासिना सुकविना लोकोपकारार्थिना । नानापण्डितवक्त्रनिर्गतवतां निर्मीयते केनचित पद्यानामिह संग्रहोऽमृतकथाप्रस्तावविस्तारिणां ॥ १ ॥ काव्ये भव्यतमेपि विज्ञनिवचैरास्वाद्यमाने मुहुर् दोषाम्वेषणमेव मत्सरयुषां नैसर्गिको दुर्ग्रहः । कासारेपि विकाशिपङ्कजचये खेलन्मराले पुनः क्रौञ्चचचुपुटेन कुब्बितवपुः सम्वूकमन्बेषते ॥ २ ॥ अतिरमणीये काव्येऽपि पिशुनो दूषणमन्वेषयति । अतिरमणीये वपुषि व्रणमिव मक्षिकानिकरः ॥ ३॥ कीर्तिः स्वर्गतरङ्गिणीभिरभितो वैकुण्डमाखावितं क्षौणीनाथ तव प्रतापतयनैः सन्तापितः क्षीरधिः । इत्येवं दवितायुगेन हरिणा त्वं याचितः स्वाश्रयं हृत्पद्मं हरये श्रिये स्वभवनं कण्ठं गिरे दत्तवान् ॥ ४ ॥ रवेः कवेः किं समरस्य सारं कृषेर्भयं किं किमदन्ति भृङ्गाः । सदा भयं ब्रह्मपदश्च केषां night 7800 Google