हंसा: पद्मवनाशया मधुलिह: शौरम्यलाभाशया
पान्थाः स्वादुफलाशया बलिभुजो गृध्राश्च मांसाशया ।
दूरादुनतपुष्परागनिक रैर्निःसारमिथ्योचते
रेरे शाल्मलिपादप प्रतिदिनं केन त्वमावश्चितः ॥ ११ ॥
किन्तेन हेमगिरिणा रजताद्रिणा वा
यच स्थिताहि तरवस्तरवस्तएव ।
वन्दामहे मलयमेव यदाश्रये
शाकोट निम्ब कुटजान्यपि चन्दनानि ॥ १२ ॥
निर्वाणदीपे किमु तैलदानं
चौरे गते वा किमु सावधानं ।
वयोगते किं वनिताविलासः
पयोगते किं खस्तु सेतुवन्धः ॥ १३ ॥
शीतेतीते वसनमशनं वासरान्ते निशान्ते
क्रीडारम्भः कुवलयां यौवनान्ते विवाहः ।
सेतोर्वन्धः पयसि गलिते प्रस्थिते लग्नचिन्ता
सर्वचैतद्भवति विफलं स्वस्वकाले व्यतीते ॥ १४॥
नवं वस्त्रं नवच्छचं नव्या स्त्री नूतनं गृहं ।
सर्वच नूतनं शस्तं सेवकाचे पुरातने ॥ १५ ॥
समायाति यदा लक्ष्मीर् नारिकेलफलाम्बुवत्
विनियति यदा लक्ष्मीर् गजभुक्तकपित्यवत् ॥ १६ ॥
इति श्रीमहाकविवेतालभटूविरचितं
नीतिप्रदीपकाव्यं समाप्तं ॥ ० ॥