पृष्ठम्:काव्यसंग्रहः.pdf/५४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नीतिप्रदीपः । ५२७ दुर्नीते हि विधौ किमस्ति चरितं कः स्थानलाभे गुणः कालो हि व्यसनप्रसावितकरो गृहाति दूरादपि ॥ ५ ॥ श्रपि दलन् मुकुले वकुले यया पदमधायि कदापि न तृष्णया । अहह सा सहसा विधुरे विधौ मधुकरी बदरीमनुवर्तते ॥ ६ ॥ गतोस्मि तीरं जलधेः पिपासया स चापि शुष्कबुलुकी कृतो मया । न दृश्यते दोपलवोपि तोयधेर ममैव तत्कर्मफलं विजृम्भते ॥७॥ सिंहक्षंणकरीन्द्र कुम्भगस्थितं रक्ताक्तमुक्ताफलं कान्तारे बदरीधिया द्रुतमगात् भिलस्य पत्नी मुदा 1 पाणीभ्यावगु शुक्लकठिनं तद्दीष्य दूरे जहा · वस्थाने पततामतीव महतामेतादृशी स्याहतिः ॥ ८ ॥ किन्ते नम्रतया किमुन्नततया किन्ते घनच्छायया किन्ते पल्लवलीलया किमनया चाशोक पुष्प श्रिया । यत्त्वम्मूलनिषन्नखिन्नपथिकस्तोमः स्तुवन्नन्वयं न स्वादूनि मृदूनि खादति फलान्युत्कण्ठमुत्कण्ठितं ॥८॥ दूरे मार्गान्निवससि पुनः कंटकैराहतोसि छायाशून्यः फलमपि च ते वानरैरप्यभक्ष्यं । निर्गन्धस्त्वं मधुपरहितः शाल्मले सारशून्यः सेवास्माकं भवति विफला तिष्ठ निश्वस्य यामः ॥ १० ॥ hipt red by Google