पृष्ठम्:काव्यसंग्रहः.pdf/५३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२६ नीतिप्रदीपः । bleke रत्नाकरः किं कुरुते स्वरत्नैर् विन्ध्याचलः किं करिभिः करोति । श्रीखण्डखण्डैर्मलयाचलः किं परोपकाराय सतां विभूतिः ॥ १ ॥ कर्णावघातैरपि ताब्यमाना दूरीकताः करिवरेण मदान्धबुच्चा | तस्यैव गण्डयुगमण्डनहानिरेया भृङ्गाः पुनर्विकचपद्मवने चरन्ति ॥ २ ॥ येनाकारि मृणालपत्रमशनं क्रीडा करिण्या सह स्वच्छन्दं भ्रमणश्च कन्दरगणे पीतं पयो निर्झरं । सोयं वन्यकरी नरेषु पतितः पुष्णाति देहं तृणैर् यद्दैवेन ललाटपचलिखितं तत् प्रोज्झितुं कः क्षमः ॥ ३॥ शशिदिवाकरयोर्ग्रहपीडनं गजभूजंगमयोरपि वन्धनं । मतिमताभ्व विलोक्य दरिद्रतां विधिरहो बलवान् इति मे मतिः ॥ ४ ॥ व्योम्येकान्तविहारिणोषि विहगाः संप्राप्नुवन्त्यापदं वध्यन्ते निपुनैरगाधशलिलात् मत्स्याः समुद्रादपि । Tigic red by Google