५३२
पद्यसंग्रहः ।
शैत्यनाम गुणस्तवैव त्वदनु स्वाभाविकी स्वच्छता किं ब्रूमः शुचितां भवन्त्यशुचयः स्पर्शेन यस्याः परे। किच्चातः परमं तव स्तुतिपदं त्वं जीवनं देहिनां त्वं चेत्रीचपथेन गच्छसि पयः करुवां निरोढुं क्षमः ॥१७॥ वल्लालजवाच ॥
तापो नापगतस्तृषा नच कृशा धौता न धूली तनोर् न स्वच्छ्न्दमकारि कन्दकवलः का नाम केलीकथा ।
दूरोत्क्षिप्तकरेण हन्त करिणा स्पृष्टा नवा पद्मिनी
प्रारब्धो मधुपैरकारणमहो झङ्गारकोखाइखः ॥१८॥ तत्पुचउवाच ॥
परीवादस्तथ्यो भवति वितथी वापि महताम् श्रतथ्यस्तथ्यो वा हरति महिमानं जनरवः ।
तुलोत्तीर्णस्यापि प्रकटितहताशेषतमसो रवेस्तादृक्तेजो नहि भवति कन्यां गतवतः ॥ १९ ॥ राजोवाच ॥
सुधांशोर्जातेयं कथमपि कखङ्गस्य कणिका विधातुर्दोषेोयं नच गुणनिधेस्तस्य किमपि ।
स किं नाचेः पुची न किमु इरचूडार्चनमणिर् न वा इन्ति ध्वान्तं जगदुपरि किं वा न वसति ॥२०॥ इति श्रीकविभटुछतः पद्यसंग्रहः समाप्तः ॥ ० ॥ →•$०●