पृष्ठम्:काव्यसंग्रहः.pdf/५३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गणरत्नं । सानन्दं नन्दिहस्ताइतमुरवातकौमारवाई चासानासाग्ररन्धं विशतिफणिपतौ भोगसङ्कोचभाजि । गण्डोडीनालिमालामुखरितककुभस्ताण्डवे शूलपाणेर् वैनायक्यश्चिरं वो बदनविधुतयः पान्तु चित्कारवत्यः ॥१॥ यत्कण्ठे गरलं विराजति सदा मौलौ च मन्दाकिणी यस्याङ्के गिरिजाननं कटितटे शार्दलचर्माम्बरं । यन्माया हि रुणद्धि विश्वमखिलं पायात् स वः शङ्करः जम्बुवत् अलविन्दुवत् जलजवत् जम्बालवत् जालवत्॥२॥ विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं विद्या भोगकरी यशःशुभकरी विद्या गुरूणां गुरुः । विद्या बन्धुजनो विदेशगमने विद्या परं देवत बिच्चा राजसु पूज्यते नहि धनं विद्याविहीनः पशुः ॥ ३ ॥ गुणी गुणं वेत्ति न वेत्ति निर्गुणो वली वलं वेत्ति न वेत्ति निर्वलः । पिको वसन्तस्थ गुणं न वायसः करी च सिंहस्य वलं न मूषिकः ॥ ४ ॥ गुणा गुणज्ञेषु गुणा भवन्ति ते निर्गुणं प्राप्य भवन्ति दोषाः । by Google ५२३ Digi: red by