पृष्ठम्:काव्यसंग्रहः.pdf/५३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२२ ब्रजविहारः । कृष्ये कारुण्यपूर्ले शशधरवदने पोमकौषयवस्त्रे रत्नालङ्कारभूषे सजलजलधर श्यामले सुन्दराने । वंशीवाद्यप्रमोदे ब्रजजनयुवती जीवने यादवेन्द्रे भूयाइक्तिहढा मे सकलसुरवरैः सेव्यमाने मुरारौ ॥१६॥ वृन्दारण्ये विहरति सदा वासुदेवो दयालुर् गोपश्रीभिः स्मरशरशतैर्भिवत् कामकीभिः । गोपैर्वालैरपि सहचरैः साईमानन्दयुक्तैर् योसौ कृष्णः परमकरुणस्तं सदा चिन्तयेहं ॥ १७ ॥ de वृन्दावनस्थानविहारहेतो राधासमं कुञ्जगृह प्रवेशं । चकार गोपीजनवल्लभोसौ पायादपायादपि मां मुरारिः ॥ १८ ॥ वने वने कुञ्जवने मुरारिर् भ्रमन् भ्रमन् भ्राजति राधिका च । सदैव कुन्ने रमते च राधया पायादपायादिङ कृष्णएकः ॥ १८ ॥ अनन्तविश्वम्भर वासुदेव समस्तदेवैरपि वन्द्यपाद् । निरामय चाणपते मुरारे हरे हराशेषमहाघसंघ ॥ २० ॥ इति श्रीधरस्वामिना विरचितं ब्रजविहारकाव्यं समाप्तं ॥ ● ॥ Tigic red by Google