पृष्ठम्:काव्यसंग्रहः.pdf/५३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रजविहारः | नवीनमेघोपमनीलदे हः सुपीतपट्टाम्बरयुग्मधारी । स्मिताननः कुण्डलवान् किरोटी वंशीधरो मालतिमाल्यधारी ॥ १० ॥ नवीननीलाम्बुदकान्तिमद्दपुः सस्मेरवक्ताम्बुजवेणुवादनः। अनेकरत्नाभरणैर् विभूषितः ससुन्दराङ्गो महसा माहोज्ज्वलः ॥ ११ ॥ गोपीजनानन्दकरो मुरारिर् वृन्दावनेन्द्रो वनमाल्यशोभी । वंशीनिनादेन ब्रजाङ्गणानां मनांसि सम्मोहितवान् स कामी ॥ १२ ॥ नाशाय वालकगणान् सहि कंसराजः तां पूतनां मानुघराक्षसीच। संप्रेषयामास यदा तदा तां मायाशिशुः प्राणसमं शुशोष ॥ १३ ॥ जिघांसया समायान्तों पूतनां राक्षसीवरां । क्रोडे कृत्वा स्तन्यदाच जघान वालको हरिः ॥ १४ ॥ गोपोगणो यमिह कामहरा भजन्ते यं भक्तिभाज इह केवलभक्तिभावैः । यं योगिनो यदि धिया परिचिन्तयन्ति तं केवलं कमललोचनमाश्रये ॥ १५ ॥ 2 Google ५२१