पृष्ठम्:काव्यसंग्रहः.pdf/५३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२० ब्रजविहारः । राधानाथः सजलजलदः श्यामलः पीतवासा हृन्दारण्ये विहरति सदा सञ्चिदानन्दरूपः ॥ ५ ॥ ज्योतीरूपं परमपुरुषं निर्गुणं नित्यमेकं नित्यानन्दं निखिलजगतामीश्वरं वीववीजं । गोलोकेशं विभुजमरलीधारिणं राधिकेशं वन्दे हृन्दारकहरिहरब्रह्म॒वन्द्यघ्रिपद्मं ॥ ६ ॥ येषां श्रीमद्यशोदासुतपदकमले नास्ति भक्तिर्नराणां । येषामाभीरकन्या प्रियगुणकथने नानुरक्ता रसना ॥ येषां श्रीकृष्णलीलाललितगुणकथा सादरौ नैव कर्णो । धिक् तान् धिक् तान् धिगेतान् कथयति नितरां कीर्तनस्थो मृदङ्गः ॥ ७ ॥ केचिद्ददन्ति धनहीनजनो जघन्यः केचिददन्ति गुणहीनजमो अघन्यः । व्यासो वदत्यखिलवेदविशेषविज्ञो नारायणस्मरणहीनजनो जघन्यः ॥ ८ ॥ वृन्दावने वृक्षलताप्रतानैर् दृन्दावनेशस्य विहारहेतोः । पुरा विधाचा रचितान् सुकुञ्जान् जगाम कृष्णः सह राधया सः ॥६॥ Google Digi: zed by