पृष्ठम्:काव्यसंग्रहः.pdf/५३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रजविहारः । ५१८ गायन्तीनां गोपसीमन्तिनीनां स्फीताकांक्षामक्षिरोलम्बमालां । निवाञ्चल्यामात्मवकारविन्दे कुर्वन्नव्याद्देवकीनन्दनो वः ॥ १ ॥ सुपर्णस्वर्नाद्रौ रचितमणिशृङ्गो जलधिजा मुखाम्भोजे भृङ्गो निगमविलसत्पञ्ञ्जरशुकः । चिलोकोकस्तुरीतिलककमनीयो ब्रजवधू विहारी श्रीकृष्णो दिशतु भवतां शर्म सततं ॥ २ ॥ कस्त्वं वालवलानुजस्त्वमिह किं ममन्दिराशङ्कया बुद्धं तन्नवनीतकुम्भविवरे इस्तं कथं नस्यसि । कर्तुं तच पिपीलिकापनयनं सुप्ताः किमुदोधिताः वाला वत्सगतिं विवेक्तुमिति संअल्पन् हरिः पातु वः ॥३॥ जीर्णा तरिः सरिदतीवगभीरनीरा वाला वयं सकलमित्यममर्थहेतुः । निस्तारवीजमिदमेव कृशोदरीसां यम्माधवस्त्वमसि सम्प्रति कर्णधारः ॥ ४ ॥ श्रीश्रीकृष्णो जयति जगतां जन्मदाता च याता इर्ता चान्ते हरति भजतां यश्च संसारभीतिं । Thipicred by Google