विषमविषयतोयें मज्जतामसवानां
भवति शरणमेको विष्णुपोतो नराणां ॥ ११ ॥
रजसि निपतितामां मोहजालाहतानां
अननमरणदोलादर्गसंसर्गगानां ।
शरणमशरणानामे कण्वातुराणां
कुशलपथनियुक्तञ्चक्रपाणिर्नराणां ॥ १२ ॥
अपराधसहसंकुलं पतितं भीमभवार्णवोदरे।
अगतिं शरणागतं हरे कृपया केवलमात्मसात्कुरु ॥ १३॥
मा मे स्त्रीत्वं मा च मे स्यात् कुभावो
मा मूर्खत्वं मा कुदेशेषु जन्म।
मिथ्यादृष्टिर्मा च मे स्यात् कदाचित्
जातौ जातौ विष्णुभक्तो भवेयं ॥ १४ ॥
कायेन वाचा मनसेन्द्रियैश्च
वुड्यात्मना वानुसृतिप्रभावात् ।
करोमि यद्यत् सकलं परस्मै
नारायणायैव समर्पयामि ॥ १५ ॥
यत् कृतं यत् करिष्यामि तत् सर्वं न मया कृतं ।
त्वया कृतन्तु फलभुक् त्वमेव मधुसूदन ॥ १६ ॥
भवजलधिमगाधं दुस्तरं निस्तरेयं
कथमहमिति चेतो मास्म गाः कातरत्वं ।
सरसिजदृशि देवे तारकी भक्तिरेका
नरकभिदि निषणा तारयिष्यत्यवश्यं ॥१७॥
higt.red by Google
पृष्ठम्:काव्यसंग्रहः.pdf/५३०
दिखावट
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५१७
मुकुन्दमाल