सामग्री पर जाएँ

पृष्ठम्:काव्यसंग्रहः.pdf/५२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५१४
बदसारशिवस्तवः


त्वत्तो जगद्भवति देव भव स्मरारे
त्वय्येव तिष्ठति जगन्मृड विश्वनाथ ।
त्वय्येव गच्छति लयं जगदेतदीश
लिङ्गात्मके हर चराचरविश्वरूपिन् ॥ ११ ॥
इति श्रीमद्भगवच्छङ्कराचार्यविरचितं
वेदसारशिवस्तोत्रं सम्पूर्णं ॥ • ॥