पृष्ठम्:काव्यसंग्रहः.pdf/५२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वेदसारशिवस्तवः । यतो जायते पाल्यते येन विश्वं तमीशं भजे लीयते यच विश्वं ॥ ५ ॥ न भूमिर्नचापो न बहिर्न वायुर् न चाकाशमास्ते न तन्द्रा न निद्रा । न ग्रीष्मो न शीतं न देशो न वेशो न यस्यास्ति मूर्तिस्त्रिमूर्ति तमीडे ॥ ६ ॥ जं शाश्वतं कारणं कारणानां शिवं केवलं भासकं भासकानां । तुरीयं तमः पारमाद्यन्तहीनं प्रपद्ये परं पावनं द्वैतहीनं ॥ ७ ॥ नमस्ते नमस्ते विभो विश्वमूर्ते नमस्ते नमस्ते चिदानन्दमूर्ते । नमस्ते नमस्ते तपोयोगगम्य नमस्ते नमस्ते श्रुतिज्ञानगम्य ॥ ८ ॥ प्रभो शूलपाने विभो विश्वनाथ महादेव सम्भो महेश जिनेन । शिवाकान्त शान्त स्मरारे पुरारे त्वदन्यो वरेण्यो न मान्यो न गण्यः ॥ ८ ॥ शम्भो महेश करुणामय शूलपाणे गौरीपते पशुपते पशुपाशनाशिन् । काशीपते करुण्या अगदेतदेकस् त्वं हंसि पासि विदधासि महेश्वरोसि ॥ १० ॥ २ व migt red by Google