पृष्ठम्:काव्यसंग्रहः.pdf/५२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शृङ्गाररसाष्टकं । न पिवति पयसां ताराकारास्तृषार्तो विप्रुषः पत्रसंस्थाः ॥ छायामम्भोजिनीनामलिकुलसवलां वीथ्य संध्यामसंध्यां । कान्ताविश्लेषभीरुर्दिनमपि रजणीं मन्यते चक्रवाकः ॥ ५ ॥ गन्धाव्यासौ भुवनविदिता केतकी स्वर्णवर्णा पद्मभ्रान्त्या चपलमधुपः पुष्पमध्ये पपात । अन्धीभूतः कुसुमरजसा कंठकैलूनपक्षः स्थातुं गन्तुं इयमपि सखे नैव शक्तो हिरेफः ॥ ६॥ तं वीक्ष्य वेपथुमती सरसामयष्टिर् निक्षेपएव पदमुद्धृतमर्पयन्ती । मार्गाचलव्यतिकराकुलितेव शैलाधिराजतनया न ययौ न तस्थौ ॥ ७ ॥ सिन्धुः का कावला निधुवनश्रमपीडिताङ्गी निद्रां गता दयितवाहुलतानुवड्डा । सा तु यातु भवनं मिहिरोहमोयं सङ्केतवाक्यमिति काकचया वदन्ति ॥ ८ ॥ इति महामहाकविकालिदास विरचितं शृङ्गाररसाष्टकं समाप्तं ॥ ● ॥ +14+ Digized by Google ५११