पृष्ठम्:काव्यसंग्रहः.pdf/५२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१० शृङ्गाररसाष्टकं । अविदितसुखदुःखं निर्गुं वस्तु किश्चित् जडमतिरिह कश्चित् मोक्ष इत्याचचक्षे । मम तु मतमनस्मेरवारल्यघूर्णन् मदकलमदिराक्षीणीविमोक्षो हि मोक्षः ॥ १ ॥ कदा कान्तागारे परिमलमिलत्पुष्पशयने शयानः कान्तायाः कुचयुगमहं वक्षति वहन् । अये कान्ते मुग्धे कुटिलनयने चन्द्रवदने प्रसीदेति क्रोशन निमीषसिव नेष्यामि दिवसान् ॥ २ ॥ सायं नायमुदेति वासरमणिश्चन्द्रो न चण्डद्युतिर् दावाग्भिः कथमम्वरे किमशनिः स्वच्छान्तरीक्षे स्थितः । इन्तेदं निरणायि पान्थरमणीप्राणानिलाशाशया धाषद्घोरविभावरी विषधरी भोगस्य भीमो मणिः ॥ ३ ॥ आयाति याति पुनरेव असं प्रयाति पद्माकराणि विधुनोति धुनोति पक्षौ । उन्मत्तवद्धमति कूजति मन्दमन्दं कान्तावियोग विधुरो निशि चक्रवाकः ॥ ४ ॥ भंक्का भोक्तुं न भुंक्ते कुटिलविसलता खण्डमिन्दोर्वितर्कात् । Digitzed by by Google