पृष्ठम्:काव्यसंग्रहः.pdf/५२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धर्मविवेकः । ५०८ स्मारं स्मारं स्वगृहचरितं दारुभूतो मुरारिः ॥ ११ ॥ असारे खलु संसारे सारं श्वशुरमन्दिरं | हरो हिमालये शेते विष्णुः शेते महोदधौ ॥ १२ ॥ असारे खलु संसारे सारमेतञ्चतुष्टयं । काश्यां वासः सतां सङ्गो गङ्गाम्भः शम्भुसेवनं ॥ १३ ॥ आपदर्थं धनं रक्षेदारान् रक्षेत् धनैरपि । 1 आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥ १४ ॥ चिन्ता ज्वरो मनुष्याणां वस्त्राणामातपो ज्वरः । असौभाग्यं ज्वरः स्त्रीलामश्वानां मैथुनं ज्वरः ॥ १५ ॥ यदि कृष्णपदे चिन्ता भक्तिस्तत्पदपजे । विषमे दुर्गमे वापि का चिन्ता मरखे रखे ॥१६॥ देवे तीर्थे द्विजे मन्त्रे देवजे भेषजे गरौ । यादृशी भावना यस्य सिद्धिर्भवति तादृशी ॥ १७ ॥ न माता शपते पुत्रं न दोषं लभते मही । न हिंसां कुरुते साधुर् न देवः सृष्टिनाशकः ॥ २८ ॥ जल्पन्ति सूरयः सर्वे धर्मो रक्षति धार्मिकं । एतज्ज्ञातव्यमद्यैव किमच च भविष्यति ॥ १८ ॥ जयोस्तु पाण्डुपुत्राणां येषां पक्षे जनार्दनः । यतः कृष्णस्ततो धर्मो यतो धर्मस्ततो जयः ॥ २० ॥ इति श्रीमहाकविहलायुधविरचितं धर्मविवेकवाक्यं समाप्तं ॥ ● # Digized by by Google