पृष्ठम्:काव्यसंग्रहः.pdf/५२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०८ धर्मविवेकः तुर्णं तौ तु यमालयम्प्रति गतौ दैवी विचिचा गतिः ॥५॥ शुण्ठीगोखुरयोर्विचार्य मनसा कस्काशनं यन्मया प्रोक्तं तद्दीपरीतकं कृतमहोगोः खरमाचं ददौ । नार्थो मूर्खजनालये न च सुखं नोवा यशो लभ्यते सढैये कविभूपतौ हरिहरे लाभः परं गोवधः ॥ ६ ॥ पञ्चास्यस्य पराभवाय भषको मांसेन गोर्भूयसा दध्यन्वैरपि पायसैः प्रतिदिनं सम्बर्द्धितो यो मया । सोयं सिंहरषानुहान्तरगमीत्याकुलः सम्धमाद् हन्ताशा विलयं गता हतवीधेर्खाभः परं गोवधः ॥ ७ ॥ पारीन्द्रस्य पराभवाय सुरभीमांसेन दुर्मेधसा पुष्यन्ते किल पीवराः कटुगिरः श्वानः प्रयत्नादमी। नत्वेतन्मदमत्तवारणचमूविद्रावणः केशरी जेतव्यो भवता किरातहफ्ते लाभः परं गोवधः ॥ ८ ॥ एका भूरुभयोरैक्यमुभयोर्दलकाण्डयोः । शालिश्यामाकयोर्भेदः फलेन परिषीयते ॥ ८ ॥ जातः सूर्यकुले पिता दशरथः क्षौणीभुजामग्रणी: सीता सत्यपरायणा प्रणयिणी यस्यानुजो लक्ष्मणः । दोर्दण्डेन समो नचास्तिभुवने प्रत्यक्ष विष्णुः स्वयं रामो येन विडम्वितोपि विधिना चान्ये परे काकथा ॥१०॥ एका भार्या प्रकृतिमुखरा चश्चला च द्वितीया पुत्रस्तेको भुवनविजयो मन्मथो दुर्निवारः । शघः शय्या शयनमुदधौ वाहनं पन्नगारिः higi, red by Google